________________
३८० प्रमाणनयतत्त्वालोकालङ्कारःशिवानिति परप्रकाशकोऽस्तु, आत्मानमप्येतावन्मात्रेणैव प्रकाशयतीति तु कौतस्कुती नीतिः? इति चेत् । तत्कि तेनाऽप्रकाशितेनैव वराकेण स्थातव्यम् , आलोकान्तराद् वा प्रकाशेनाऽस्य भवितव्यम्?। प्रथमे, प्रत्यक्षबाधा । द्वितीयेऽपि, सैवाऽनवस्थापत्तिश्च । अथ नाऽसौ स्वमपेक्ष्य कर्मतया चकास्ति, इत्यस्वप्रकाशकः स्वीक्रियते, प्रकाशरूपतया तूत्पन्नत्वात् स्वयं प्रकाशत एवेति चेत् । अनेनैव सुधामद्धि, न हि वयमपि ज्ञानं कर्मतयैव प्रतिभासमानं स्ववेद्यमावेदयामहि, ज्ञानं स्वयं प्रतिभासत इत्यादावकर्मकस्य तस्य चकासनात् । यथा तु ज्ञानं जानामीति कर्मतयाऽपि तद् भाति, यथा प्रदीपः स्वं प्रकाशयतीत्ययमपि तथा प्रथत एव । अथावयवैरालोकावयवी प्रकाश्यतइत्यस्वप्रकाशक एवायमिति चेत् । ननु तेऽपि केन प्रकाशनीयाः ? । अवयविनेति चेत् । नन्वमीषां परस्परगोचरज्ञानजनने सहकारित्वमेव तावत्प्रकाशकत्वमुच्यते । तच्चामीषामज्ञातानाम् , ज्ञातानां वा स्यात् ? । नाज्ञातानाम् , एवं ह्यनालोकित एव प्रदीपकुमलाऽऽलोकोऽपि कदाचित् कलशकुलिशादीज्ञापयेत् । ज्ञातानां चेत् । इतरेतराश्रयापत्तिः-ज्ञाताः खल्ववयवा अवयविनं ज्ञापयेयुः, सोऽपि च ज्ञातएव तान् ज्ञापयेदिति । अथ तेषामप्यवयवानामवयवित्वाद् निजावयवैज्ञप्तिः करिष्यते, तदानीमनवस्था । अथ पर्यन्ते केचिदक्यवाः स्वयमेवात्मानं ज्ञापयेयुः, तर्हि ज्ञानमपि स्वयमेवात्मानं निश्चिनोतीति किं न कक्षीकुरुषे ?। कथं च पारोक्ष्ये ज्ञानस्य ज्ञानं स्यात् ? । अन्यथाऽनुपपद्यमानार्थप्राकट्यरूपार्थसमुत्थापितार्थापत्तेरिति चेत् । ननु तदर्थप्राकट्यमात्मधर्मः, ज्ञानधर्मः, अर्थधर्मो वा भवेत् । नाद्यः प्रकारः, प्रभाकरकक्षापञ्जरप्रवेशप्रसङ्गात् । न द्वैतीयीकः, ज्ञानस्य क्षणिकत्वेन तत्क्षण एव क्षीणत्वादुपरितनक्षणोत्पदिष्णोस्तस्य तद्धर्मत्वविरोधात् । नाऽपि तार्तीयीकः, तथात्वे हि चैत्रस्येव मैत्रस्यापि स पदार्थः प्रकटः स्यात् । अथ यस्यैव ज्ञानेन जनयाम्बभू• वेऽसौ, तस्यैव तत्प्रकटनम् , तद् दुर्घटम् , घटस्य प्रतिनियतप्रमातृप्रबो