________________
रत्नाकरावतारिकायुक्तः। धितप्रदीपाङ्कुरप्रकटितस्याऽप्यनियतैर्दर्शनात् तन्नियमानुपपत्तेः । अस्तु वैतत् , तथाप्ययमर्थधर्मो जडः, चिद्रूपो वा भवेत् ? । यदि जडः, कथमर्थदर्शनं स्यात् ?; अर्थदर्शनं ह्यर्थदृष्टिरर्थज्ञप्तिरुच्यते, जडत्वे तु प्राकट्यस्य कथमिदं घटत ? । ज्ञानप्रमाणशब्दयोश्चैवं सामानाधिकरण्यमसूपपादम् , यतो ज्ञायते ज्ञप्तिर्जन्यते येन तत् ज्ञानमाम्नायते, प्राकट्यस्य च जडत्वेनाऽज्ञप्तिरूपत्वे कथं तजनकं प्रमाणं ज्ञानं व्यपदिश्येत । चिद्रूपश्चेत् । स्वसंवेद्यः, वेदनान्तरवेद्यो वा ? । यदि स्वसंवेद्यः, तर्हि “कृतश्च शीलविध्वंसो न चाऽनङ्गः शमं गतः” इति न्यायः समायातः-स्वात्मनि क्रियाविरोधाद् विज्ञाने स्वसंवित्तिप्रतिक्षेपपातकं कृत्वाऽपि प्राकट्ये तस्याः स्वयं स्वीकारात् । वेदनान्तरवेद्यत्वं पुनरस्य कुतस्त्यम् ?, तथाहि-किमयं यावदर्थम् , यावदक्षव्यापारं वाऽवतिष्ठत ?, ज्ञानवत्क्षणिको वा भवेत् ? । नाद्यः पक्षः, पदार्थमालोक्य निमीलितलोचनोत्पलयुगलस्य प्रकटतत्प्रतीतिप्रसक्तेः । न द्वितीयः, अक्षादिव्यापारस्य ज्ञानोत्पत्तिमात्रे व्यापारात् प्राकट्यस्य तदपेक्षानुपपत्तेः । नापि तृतीयः, क्षणजातनष्टस्य वेदनान्तरेण वेदितुमशक्यत्वात् , वेदने तु द्वित्रिक्षणावस्थितिप्रसक्तेः । तन्न तद् वेदनमवदातम् , यतोऽर्थापत्तिरुल्लसेदिति ॥
अथ योगाः संगिरन्ते-अहो ! आर्हताः ! नाऽस्मिन् मीमांसके वराके व्यपाकृतेऽपि संवेदने स्वसंवेदनदोहदः पूरयितुं पार्यते। तथाहिज्ञानं स्वान्यप्रकाश्यम् , ईश्वरज्ञानान्यत्वे सति प्रमेयत्वाद्, यदेवं तदेवं, यथा घटः, तथा चेदम् , तस्मात् तथा । समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तरसमयसमुत्पदिष्णुमानसप्रत्यक्षेणैव लक्ष्यते, न पुनः स्वेन । न चैवमनस्थावल्लेरुल्लासः, अर्थावसायिवेदनोत्पादमात्रेणैवाऽर्थसिद्धेः, तद्धि पदार्थपरामर्शस्वभावमेव; इत्युत्पन्नमात्रमेव पदार्थप्रथामनोरथरथस्थितं कृतार्थयति प्रमातारम् । अर्थज्ञानजिज्ञासायां तु तत्रापि ज्ञानमुत्पद्यत एवेति ॥
तदेतदेतेषां मतेस्तरलतां तनोति, प्रकटितप्रयोगे पक्षस्यानुमानेन