________________
प्रमाणनयतत्त्वालोकालङ्कारः-- मानखण्डनात् , तथा च तावकाऽऽकूतेन तत्र हेतोः कालात्ययापदिटत्वनिष्टङ्कनाच्च । तथाहि-विवादास्पदं ज्ञानं स्वसंविदितम् , ज्ञानत्वात् , ईश्वरज्ञानवत् । वाद्यसिद्धमेतन्निदर्शनम् ; जैनैरीश्वरास्वीकारेण तज्ज्ञानस्य तेषामप्रसिद्धेः, इति चेत् । तदचतुरस्रम्, अनवद्यविद्याविद्याधरीबन्धुरपरिष्वङ्गस्य पुरुषातिशेषविशेषस्य खण्डपरशोः स्वीकारात् , त्रिविष्टपघटनलम्पटपटिम्नः सकलावलोकनकौशलशालिन एव चास्य तिरस्कारात् । व्यर्थविशेष्यश्चात्र हेतुः; समर्थविशेषणोपादानेनैव साध्यसिद्धेः, धूमध्वजसिद्धौ धूमवत्त्वे सति द्रव्यत्वादितिवत् । न हीश्वरज्ञानादन्यत् स्वसंविदितमप्रमेयं चास्ति, यदपोहाय प्रमेयत्वादिति क्रियते । अप्रयोजकश्चायं हेतुः, सोपाधिकत्वात् , साधनाऽव्यापकः साध्येन समव्याप्तिकः खलूपाधिरभिधीयते; तत्पुत्रत्वादिना श्यामत्वे साध्ये शाकाद्याहारपरिणामवत् । कः पुनरुपाधिरत्र सूक्ष्मेक्षणैरीक्षाञ्चक्रे? इति चेत् । उच्यते, निबिडजडिमन् ! जडिमलक्षणः । तथाहि-ईश्वरज्ञानान्यत्वे प्रमेयत्वे सत्यपि यदेव जडिमपात्रं पात्रादि तदेव स्वस्मादन्येनैव प्रकाश्यते । स्वप्रकाशे परमुखोत्प्रेक्षित्वं हि जडस्य लक्षणम् ; न च ज्ञानं जडस्वरूपम् , इति सिद्धं साधनाव्यापकत्वं जाड्यस्य, साध्येन समव्याप्तिकत्वं चास्य स्पष्टमेव, जाड्यं विहाय स्वप्रकाशाभावस्य, तं च त्यक्त्वा जाड्यस्य कचिदप्यदर्शनादिति । यच्चोक्तम्-समुत्पन्नं हि ज्ञानमेकात्मसमवेतेत्यादि । तदपि नावितथम् , इत्थमर्थज्ञानतज्ज्ञानयोरुत्पद्यमानयोः क्रमानुपलक्षणात् । आशूत्पादादत्र क्रमानुपलक्षणमुत्पलपत्रशतव्यतिभेदवदिति चेत् । तदचारु, जिज्ञासाव्यवहितस्याऽर्थज्ञानज्ञानस्योत्पादप्रतिपादनात्। न च जिज्ञासासमुत्पाद्यत्वं संवेदनानां संगच्छते, अजिज्ञासितेष्वपि योग्यदेशेषु गोचरेषु तदुत्पादप्रतीतेः । न चायोग्यदेशमर्थज्ञानम् , आत्मसमवेतस्याऽस्य समुत्पादात् , इति जिज्ञासामन्तरेणैवार्थज्ञाने ज्ञानोत्पादप्रसङ्गः । बाढमुत्पद्यतां नामेदम् , को दोषः? इति चेत् । नन्वेवमेव तज्ज्ञानज्ञानेऽप्यपरज्ञानोत्पादप्रसङ्गः, तत्राऽपि चैवमेवायम् , इत्यपरापरज्ञानो