________________
रत्नाकरावतारिकायुक्तः। ४१ त्पादपरम्परायामेवात्मनो व्यापाराद् न विषयान्तरसंचारः स्यात् ; इति न ज्ञानस्य ज्ञानान्तरज्ञेयताऽपि युक्तिमार्गमवगाहते ॥ १७ ॥
प्रमाणं विविच्याऽस्यैव प्रामाण्यस्वरूपं धर्ममाविष्कुर्वन्तिज्ञानस्य प्रमेयाऽव्यभिचारित्वं प्रामाण्यम् ॥ १८ ॥
प्रमीयमाणार्थाऽव्यभिचरणशीलत्वं यज् ज्ञानस्य तत् प्रामाण्यमित्यर्थः ॥ १८ ॥
प्रसङ्गायातमप्रामाण्यरूपमपि धर्म प्रकटयन्ति
. तदितरत्त्वप्रामाण्यम् ॥ १९ ॥
तस्मात् प्रमेयाव्यभिचारित्वात् , इतरत् प्रमेयव्यभिचारित्वम् , अप्रामाण्यं प्रत्येयम् । प्रमेयव्यभिचारित्वं च ज्ञानस्य स्वव्यतिरिक्तप्राह्यापेक्षयैव लक्षणीयम् , स्वस्मिन् व्यभिचारस्यासंभवात् , तेन सर्व ज्ञानं स्वापेक्षया प्रमाणमेव; न प्रमाणाभासम् , बहिरर्थापेक्षया तु किञ्चित् प्रमाणम् , किञ्चित् प्रमाणाभासम् ॥ १९ ।।
अथोत्पत्तौ स्वनिश्चये च ज्ञानानां स्वत एव प्रामाण्यम् , अप्रामाण्यं तु परत एव यज् जैमिनीया जगुः, तद् निराकुर्वन्तितदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु खतः परतश्च ॥२०॥
अत्र ल्यब्लोपे पञ्चमी; परं स्वं चापेक्ष्येत्यर्थः, ज्ञानस्य हि प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगतगुणदोषरूपं परमपेक्ष्योत्पद्यते । निश्चीयते त्वभ्यासदशायां स्वतः, अनभ्यासदशायां तु परत इति । तत्र ज्ञानस्याऽभ्यासदशायां प्रमेयाऽव्यभिचारि, तदितरच्चास्मीति प्रामाण्याप्रामाण्यनिश्चयः संवादकबाधकज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीयते, अनभ्यासदशायां तु तदपेक्ष्य जायमानोऽसौ परत इति ।
अत्रैवं मीमांसका मीमांसामांसलतां दर्शयन्ति- स्वत एव
१ अस्तीति पाठान्तरम् ।