________________
४२.
प्रमाणनयतत्त्वालोकालङ्ककारः
सर्वथा प्रमाणानां प्रामाण्यं प्रतीतिकोटिमाटीकते । तथाहि- तदुत्पत्तिप्रगुणा गुणाः प्रत्यक्षेण, अनुमानेन वा मीयेरन् ? । यदि प्रत्यक्षेण, तत् किमैन्द्रियेण, अतीन्द्रियेण वा ?। नैन्द्रियेण, अतीन्द्रियेन्द्रियाऽधिकरणत्वेन तेषां तद्ग्रहणाऽयोग्यत्वात् । नाप्यतीन्द्रियेण, तस्य चारुविचारगोचरचरिष्णुत्वाभावात् । अनुमानेन तान् निरणेष्महीति चेत् । कुतस्तत्र नियमनिर्णयः स्यात् ?, प्रत्यक्षाद् गुणेषु तत्प्रवृत्तेः परास्तत्वात् । तथा च
"द्विष्ठसंबन्धसंवित्तिनैकरूपप्रवेदनात् ।
द्वयस्वरूपग्रहणे सति संबन्धवेदनम्" ॥ १॥ नाप्यनुमानात् , तत एव तनिश्चितावितरेतराश्रयस्य, तदन्तरात् पुनरनवस्थायाः प्रसक्तेः । ततो न गुणाः सन्ति केचित् , इति स्वरूपावस्थेभ्य एव कारणेभ्यो जायमानं तत् कथमुत्पत्तौ परतः स्यात् ? । निश्चयस्तु तस्य परतः कारणगुणज्ञानात् , बाधकामावज्ञानात् , संवादिवेदनाद् वा स्यात् ?। तत्र प्राच्यं प्रकारं प्रागेव प्रास्थाम, गुणग्रहणप्रवीणप्रमाणपराकरणात् । द्वितीये तु, तात्कालिकस्य, कालान्तरभाविनो वा बाधकस्याऽभावज्ञानं तन्निश्चायकं स्यात् ?। पौरस्त्यं तावत् कूटहाटकनिष्टङ्कनेऽपि स्पष्टमस्त्येव । द्वितीयं तु न चर्मचक्षुषां संभवति । संवादिवेदनं तु सहकारिरूपं सत् तन्निश्चयं विरचयेद्, ग्राहकं वा ? । नाद्यभिद्, भिन्नकालत्वेन तस्य सहकारित्वासंभवात् । द्वितीयपक्षे तु; तस्यैव ग्राहकं सत् , तद्विषयस्य, विषयान्तरस्य वा ? । न प्रथमः पक्षः, प्रवर्तकज्ञानस्य सुदूनष्टत्वेन ग्राह्यत्वायोगात् । द्वितीये तु; एकसन्तानम् , भिन्नसतानं वा तत् स्यात् ? । पक्षद्वयेऽपि, तैमिरिकाऽऽलोक्यमानमृगाङ्कमण्डलद्वयदर्शिदर्शनेन व्यभिचारः, तद्धि चैत्रस्य पुनःपुनमैत्रस्य चोत्पद्यतएव । तृतीये पुनः, अर्थक्रियाज्ञानम् , अन्यद् वा तद् भवेत् । न पौरस्त्यम् , प्रवर्तकस्य प्रामाण्यानिश्चये प्रवृत्त्यभावेनार्थक्रियाया एवाभावात् । निश्चितप्रामाण्यात् तु प्रवर्तकज्ञानात् प्रवृत्तौ चक्रकम्- निश्चित