________________
रत्नाकरावतारिकायुक्तः । ४३ प्रामाण्यात् प्रवर्तकात् प्रवृत्तिः, प्रवृत्तेरर्थक्रियाज्ञानम् , तस्माच्च प्रवतकज्ञानस्य प्रामाण्यनिश्चय इति । कथं चार्थक्रियाज्ञानस्याऽपि प्रामाण्यनिश्चयः ? । अन्यस्मादर्थक्रियाज्ञानाच्चेत् । अनवस्था । प्रवर्तकज्ञानाच्चेत् । अन्योन्याश्रयः । स्वतश्चेत् । प्रवर्तकज्ञानस्यापि तथैवाऽस्तु । अन्यदपि विज्ञानमेकसन्तानम् , भिन्नसन्तानं वा?। द्वयमपि चैतदेकजातीयम् , भिन्नजातीयं वा ?। चतुष्टयमपि चैतद् व्यभिचाराभिचारदुस्संचरम् । तथाहि- एकसन्तानं भिन्नसन्तानं चैकजातीयमपि तरलतरतुङ्गतङ्गत्तरङ्गतरङ्गिणीतोयज्ञानम् , भिन्नजातीयं च कुम्भाम्भोरुहादिज्ञानं मरुवसुन्धराचारिचतुरतरतरणिकिरणश्रेणिसङ्गिसलिलसंवेदनस्य न संवादकमिति न ज्ञप्तावपि तत् परतः । अप्रामाण्यं तूत्पत्तौ दोषापेक्षत्वात् , ज्ञप्तौ तु बाधकापेक्षत्वात् परत एवेति ।।
___ अत्राभिदध्महे- यत्तावद् गुणाः प्रत्यक्षेणाऽनुमानेन वा मीयेरनित्यादि न्यगादि । तदखिलं न खलु न दोषप्रसरेऽपि प्रेरयितुं पार्यते। अथाध्यक्षेणैव चक्षुरादिस्थान् दोषान् निश्चिक्यिरे लोकाः । किं न नैर्मल्यादीन् गुणानपि ? । अथ तिमिरादिदोषाभावमात्रमेव नैर्मल्यादि, न तु गुणरूपमिति कथमध्यक्षेण गुणनिश्चयः स्यात् ? । एवं तर्हि नैर्मल्यादिगुणाभावमात्रमेव तिमिरादि, न तु दोषरूपमिति विपर्ययकल्पना किं न स्यात् ? । अस्तु वा दोषाभावमात्रमेव गुणः, तथापि नायं तुच्छः कश्चित् संगच्छते, ___ "भावान्तरविनिर्मुक्तो भावोऽत्रानुपलम्भवत् । ___अभावः संमतस्तस्य हेतोः किं न समुद्भवः ?” ॥१॥ . . इति स्वयं भट्टेन प्रकटनात् । तदपेक्षायामपि च कथं न परतः प्रामाण्योत्पत्तिः ?। अथाऽऽसतां नैर्मल्यादयो गुणाः, तथाप्यधिष्ठानप्रतिष्ठानेव तान् प्रत्यक्षं साक्षात्करोति; न करणस्थान , तेषां परोक्षत्वात् । तर्हि तत एव दोषानपि तत्स्थानेव तत्साक्षात् कुर्यात् , इति कथं दोषा अपि प्रत्यक्षलक्ष्याः स्युः ? । अथाप्रामाण्यं विज्ञानमात्रोत्पादककारणकला
१ "धारि" इति पाठान्तरम् ।