________________
४४
प्रमाणनयतत्त्वालोकालङ्कारःपातिरिक्तकारकोत्पाद्यम्, विज्ञानमात्रानुवृत्तावपि व्यावर्तमानत्वात् , यंदनुवृत्तावपि यद् व्यावर्तते तत्तन्मात्रोत्पादककारणकलापातिरिक्तकारकोत्पाद्यम् , यथा पाथःपृथिवीपवनातपानुवृत्तावपि व्यावर्तमानः कोद्रवाङ्कुरस्तदतिरिक्तकोद्रवोत्पाद्यः, इत्यनुमानाद् दोषप्रसिद्धिरिति चेत् । चिरं नन्दताद् भवान् , इदमेव ह्यनुमानमप्रामाण्यपदं निरस्य प्रामाण्यपदं च प्रक्षिप्य गुणसिद्धावपि विदध्यात्, इति कथं न दोषवद् गुणा अपि सिद्धयेयुः ? यतो नोत्पत्तौ परतः प्रामाण्यं स्यात् । प्रतिबन्धश्च यथा दोषानुमाने तथा गुणानुमानेऽपि निर्णेयः । कथं वाऽऽदित्यगत्यनुमाने तन्निर्णयः ? । दृष्टान्ते तु यथाऽत्र साध्यसाधनसंबन्धोद्बोधोऽस्ति, तथा गुणानुमानेऽपि । यच्चाऽवाचि- निश्चयस्तु तस्य परत इत्यादि । तत्र संवादिवेदनादिति ब्रूमः । कारणगुणज्ञानबाधकाभावज्ञानयोरपि च संवादकज्ञानरूपत्वं प्रतिपद्यामहे-यादृशोऽर्थः पूर्वज्ञाने प्रथापथमवतीर्णस्तादृश एवासौ येन विज्ञानेन व्यवस्थाप्यते तत् संवादकभित्येतावन्मात्रं हि तल्लक्षणमाचचक्षिरे धीराः । यस्तु गुणग्रहणप्रवणप्रमाणपराकरणपरायणातिदेशप्रयासः, प्रयास एव केवलमयमजनि भवतः, दोषसंदोहवद् गुणगणेऽपि प्रमाणप्रवृत्तेरनिवारणात् । यत्तु बाधकाभावज्ञानपक्षे विकल्पितम्-तात्कालिकस्य कालान्तरभाविनो वेत्यादि । तत्राद्यविकल्पपरिकल्पनाऽल्पीयसी, न खलु साधननि सिसंवेदेनोदयकाले कापि कस्यापि बाधकस्योदयः संभवी, उपयोगयोगपद्यासंभवात्, भविष्यत्कालस्य तु बाधकस्याभावज्ञानात् प्रामाण्यनिर्णयो निरवद्य एव । न च चर्मचक्षुषां तदभावो भवितुमर्हति, यदुद्ग्रसमग्रसामग्रीसंपाद्यसंवेदनं न तत्र भाविबाधकावकाश इत्येवं तन्निर्णयात् । यदि च भाविवस्तुसंवेदनमस्मादृशां न स्यादेव, तदा कथं कृत्तिकोदयात् शकटोदयानुमान नास्तमियात् ? । यत्पुनरवादि- संवादिवेदनं वित्यादि । तत्र संवादिवेदनात् साधननि सिप्रतिभासविषयस्य, विषयान्तरस्य वा ग्राह
१ यदित्थं तदित्थं यथेत्येव पुस्तकान्तरे पाठः ।