________________
रत्नाकरावतारिकायुक्तः । ४५ कात् प्रामाण्यनिर्णय इति ब्रूमः । भवति हि तिमिरनिकुरम्बकरम्बितालोकसहकारिकुम्भावभासस्य तत्रैवैकसन्तानं भिन्नसन्तानं च निरन्तरालोकसहकारिसामर्थ्यसमुद्भूतं संवेदनं संवादकम् । न च तैमिरिकादिवेदनेऽपि तत्प्रसङ्गः, तत्र परतो बाधकात् । स्वतः सिद्धप्रामाण्यादुत्तरस्याऽप्रामाण्यनिर्णयाद् विषयान्तरग्राहकमपि संवादकमेव, यथाऽर्थक्रियाज्ञानम् । न चात्र चक्रकावकाशः, प्रवर्तकप्रमाणप्रामाण्यनिर्णयादिप्रयोजनायाः प्रथमप्रवृत्तेः संशयादपि भावात् । अर्थक्रियाज्ञानस्य तु स्वत एव प्रामाण्यनिश्चयः, अभ्यासदशापन्नत्वेन दृढतरस्यैवास्योत्पादात् । न च साधननिर्भासिनोऽपि तथैवा. ऽयमस्त्विति वाच्यम् , तस्य तद्विलक्षणत्वात् । अन्यदप्येकसन्तानं भिन्नसन्तानं चैकजातीयं च यथैकदस्रदर्शनं दस्रान्तरदर्शनस्य, भिन्नजातीयं च यथा निशीथे तथाविधरसास्वादनं तथाभूतरूपस्य संवादकं भवत्येव । न च मिथ्यापाथःप्रथायाः पाथोऽन्तरे कुम्भादौ वा संवेदनं संवादकं प्रसज्यते, यतो न खलु निखिलं प्रागुक्तं संवेदनं संवादकं संगिरामहे, किं तर्हि?, यत्र पूर्वोत्तरत्र ज्ञानगोचरयोरव्यभिचारस्तत्रैव । किञ्च, स्वत एव प्रामाण्यनिर्णयवर्णनसकर्णेनाऽनेन स्वशब्द आत्मार्थः, आत्मीयार्थो वा कथ्येत ? । नाद्यः पक्षः, स्वावबोधविधानेऽप्यन्धया बुद्धया स्वधर्मस्य प्रामाण्यस्य निर्णेतुमशक्तेः । द्वितीये तु; प्रकटकपटनाटकघटनपाटवं प्राचीकटत्, प्रकारान्तरेणाऽस्मन्मताश्रयणात्- अस्माभिरप्यात्मीयेनैव ग्राहकेण प्रामाण्यनिर्णयस्य स्वीकृतत्वात् । अथ येनैव ज्ञानमात्रं निर्णीयते तेनैव तत्प्रामाण्यमपि, इति स्वतः प्रामाण्यनिर्णयो वर्ण्यते । नन्वर्थप्राकट्योस्थापितार्थापत्तेः सकाशात् त्वया ज्ञाननिर्णीतिस्तावदभीप्सामासे ।अर्थप्राकट्यं च यथार्थत्वविशेषणविशिष्टम् , निर्विशेषणं वाऽर्थापत्तिमुत्थापयेत् ?। प्राचि पक्षे, तस्य तद्विशेषणग्रहणं प्रथमप्रमाणात् , अन्यस्मात् , स्वतो वा भवेत् । प्रथमपक्षे, परस्पराश्रयप्रसङ्गः- निश्चितप्रामाण्याद्धि प्रथमप्रमाणाद् यथार्थत्वविशिष्टार्थप्राकट्यग्रहणम् , तस्मा