________________
प्रमाणनयतत्त्वालोकालङ्कारःच्च प्रथमप्रमाणे प्रामाण्यनिर्णय इति । द्वितीयविकल्पे तु, अनवस्थाअन्यस्मिन्नपि हि प्रमाणे प्रामाण्यनिर्णायकार्थापत्त्युत्थापकस्यार्थप्राकट्यस्य यथार्थत्वविशेषणग्रहणमन्यस्मात्प्रमाणादिति । अथ स्वतस्तद्विशेषणग्रहणम् , तथाहि-स्वसंविदितमर्थप्राकट्यं तच्चात्मानं निर्णयमानं स्वधर्मभूतं यथार्थत्वमपि निर्णयते, तथा च ततोऽनुमीयमाने ज्ञाने स्वतः प्रामाण्यज्ञप्तिरिति । तदेतदनवदातम् , एवं सत्यप्रामाण्यस्यापि स्वतो ज्ञप्तिप्रसक्तेः । स्वतो निश्चितवैतथ्यविशेषणादर्थप्राकट्याद् विज्ञानमनुमीयमानमास्कन्दिताप्रामाण्यमेवानुमीयते । ततः कथं प्रामाण्यवदप्रामाण्यस्यापि स्वतो निर्णीतिर्न स्यात् ? । अथ तत्र बाधकादेवाऽप्रामाण्यनिर्णयो न पुनर्ज्ञाननिर्णायकात्, एवं तर्हि संवादकादेव प्रामाण्यस्यापि निर्णयोऽस्तु, इति तदपि कथं स्वतो निर्णीतं स्यात् ? । निर्विशेषणं चेत् तदर्थप्राकट्यमर्थापत्त्युत्थापकम् , तर्बाप्रमाणेऽपि प्रामाण्यनिर्णायकार्थापत्त्युत्थापनाऽऽपत्तिः, अर्थप्राकट्यमात्रस्य तत्रापि सद्भावात् । इति सूत्रोक्तव व्यवस्था सिद्धिसौधमध्यमध्यरुक्षत् ॥२०॥ इति प्रमाणनयतत्त्वालोकालङ्कारे श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां प्रमाणस्वरूपनिर्णयो
नाम प्रथमः परिच्छेदः।
१ प्रामाण्यमपि इति पाठान्तरम् ।