________________
अर्हम्
द्वितीयः परिच्छेदः ।
एवं प्रमाणस्य स्वरूपं प्रतिपाद्य संख्यां समाख्यान्तितद् द्विभेदं प्रत्यक्षं च परोक्षं च ॥ १ ॥
अक्षमिन्द्रियं प्रतिगतम् — इन्द्रियाधीनतया यदुत्पद्यते तत्प्रत्यक्षमिति तत्पुरुषः । नन्वक्षिशब्दादपि प्रतिपूर्वात् " प्रतिसमनुभ्योऽक्ष्णः” इत्यव्ययीभावसमासान्ते टचि प्रत्यक्षमिति सिध्यति, तत् किं न कक्षीचक्रिवांसः ? । न चैवं स्पार्शनादिप्रत्यक्षं नैतच्छब्दवाच्यं स्यादिति वाच्यम्, तत्प्रवृत्तिनिमित्तस्य स्पष्टत्वस्य तत्रापि भावेन तच्छब्दवाच्यतोपपत्तेः । व्युत्पत्तिनिमित्तमात्रतया ात्राऽक्षिशब्दः शब्द्यते, कथमन्यथाऽक्षशब्दोपादानेऽप्यनिन्द्रियप्रत्यक्षस्य तच्छब्दवाच्यता चतुरस्रा स्यात् ? । अथ कथमेवं प्रत्यक्षः प्रेक्षाक्षणः, प्रत्यक्षा पक्षमलाक्षीति स्त्रीपुंसभावः ?, अस्याव्ययीभावस्य सदा नपुंसकत्वाद् । नैवम्, प्रत्यक्षमस्यास्तीत्यर्श आदित्वेनादन्तत्वात् तद्भावसिद्धेः । अत्रोच्यते—एवमपि प्रत्यक्षो बोधः, प्रत्यक्षा बुद्धिरित्यत्र पौस्नं स्त्रैणं च न प्राप्नोति, न ह्यत्र मत्वर्थीयार्थो घटते, प्रत्यक्षस्वरू पस्यैव वेदनस्य बोधबुद्धिशब्दाभ्यामभिधानात् । अक्षाणां परमक्षव्यापार निरपेक्षं मनोव्यापारेणाऽसाक्षादर्थपरिच्छेदकं परोक्षमिति परशब्दसमानार्थेन परश्शब्देन सिद्धम् । चशब्दौ द्वयोरपि तुल्यकक्षतां लक्षयतः, तेन या प्रत्यक्षस्य कैश्चिज्ज्येष्ठताऽभीष्टा; नासौ श्रेष्ठा, इति सूचितम् द्वयोरपि प्रामाण्यं प्रति विशेषाभावात् । ननु कथमेतद् द्वैतमुपपद्यते ?; यावता प्रत्यक्षमेवैकं प्रमाणमिति चावीकोsवोचत्, अपरे तु प्रत्यक्षानुमानागमोपमानार्थापत्त्यभाव संभवैतिह्यप्रातिभस्वभावान् भूयसो भेदान् प्रमाणस्य प्रोचुः, तत्कथमेतत् ?
"