________________
४८ प्रमाणनयतत्त्वालोकालङ्कारः" इति चेत् । उच्यते-समर्थयिष्यमाणप्रमाणभावेनानुमानेन तावच्चा
किस्तिरस्करणीयः, अपरे तु संभवत्प्रमाणभावानामत्रैवाऽन्तर्भावेन बोधनीयाः-तत्राऽनुमानागमौ परोक्षप्रकारावेव व्याख्यास्येते, उपमानं तु नैयायिकमते तावत्- कश्चित् प्रेष्यः प्रभुणा प्रेषयांचके गवयमानयेति, स गवयशब्दवाच्यमर्थमजानानः कञ्चन वनेचरं पुरुषमप्राक्षीत्-कीदृग् गवयः ? इति, स प्राह-यादृग् गौस्तादृग् गवय इति । ततस्तस्य प्रेष्यपुरुषस्याऽरण्यानी प्राप्तस्याऽऽप्तातिदेशवाक्यार्थस्मरणसहकारि गोसदृशगवयपिण्डज्ञानम् 'अयं स गवयशव्दवाच्योऽर्थः' इति प्रतिपत्तिं फलरूपामुत्पादयत् प्रमाणमिति । मीमांसकमते तु येन प्रतिपत्त्रा गौरुपलब्धो न गवयः, नवाऽतिदेशवाक्यं 'गौरिव गवयः' इति श्रुतम् , तस्य विकटाटवीपर्यटनलम्पटस्य गवयदर्शने प्रथमे समुत्पन्ने सति यत्परोक्षे गवि सादृश्यज्ञानमुन्मज्जति- 'अनेन सदृशः स गौः' इति, 'तस्य गोरनेन सादृश्यम्' इति वा, तदुपमानम् ,
"तस्माद् यत् स्मयते तत् स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ” ॥ १॥
मीन इति वचनादिति । तदुच्यते-एतच्च परोक्षभेदरूपायां प्रत्यभिज्ञायामेवान्तर्भावयिष्यते । अर्थापत्तिरपि
"प्रमाणषट्कविज्ञातो यत्रार्थोऽनन्यथाभवन् ।
अदृष्टं कल्पयेदन्यं साऽर्थापत्तिरुदाहृता” ॥ १ ॥isi को इत्येवंलक्षणाऽनुमानान्तर्गतैव, तथाहि- अर्थापत्युत्थापकोऽर्थोऽन्यथानुपपद्यमानत्वेनाऽनवगतः, अवगतो वा दृष्टार्थपरिकल्पनानिमित्तं स्यात् ? । न तावदनवगतः, अतिप्रसङ्गात् । अथाऽवगतः, तटन्यथाऽनुपपद्यमानत्वावगमोऽर्थापत्तेरेव, प्रमाणान्तराद् वा ?। प्राच्यप्रकारे परस्पराश्रयः, तथाहि-अन्यथाऽनुपपद्यमानत्वेन प्रतिपन्नादर्थादर्थापत्तिप्रवृत्तिः, तत्प्रवृत्तेश्वाऽस्याऽन्यथानुपपद्यमानत्वप्रतिपत्तिरिति । प्रमाणान्तरं तु भूयोदर्शनम् , विपक्षेऽनुपलम्भो वा ?। भूयोदर्शनमपि