________________
रत्नाकरावतारिकायुक्तः। ४९ साध्यधर्मिणि, दृष्टान्तर्मिणि वा ? । यदि साध्यधर्मिणि, तदा भूयो. दर्शनेनैव साध्यस्यापि प्रतिपन्नत्वादांपत्तेर्वैयर्थ्यम् । अथ दृष्टान्तधमिणि, तर्हि तत्र प्रवृत्तं भूयोदर्शनं साध्यधर्मिण्यप्यन्यथाऽनुपपद्यमानत्वं निश्चाययति, तत्रैव वा ? । तत्रोत्तरः पक्षोऽसन् , न खलु दृष्ठान्तधर्मिणि निश्चितान्यथाऽनुपपद्यमानत्वोऽर्थः साध्यर्मिणि तथात्वे. नाऽनिश्चितः स्वसाध्यं गमयति, अतिप्रसङ्गात् । प्रथमपक्षे तु, लिङ्गा
पत्त्युत्थापकार्थयोर्भेदाभावः । विपक्षेऽनुपलम्भात् तवगम इति चेत् । नन्वसावनुपलम्भमात्ररूपोऽनिश्चितः, निश्चितो वा तदवगमयेत् ? । प्रथमपक्षे, तत्पुत्रत्वादेरपि गमकत्वापत्तिः । निश्चितश्चेत् , तर्वानुमानमेवार्थापत्तिरापन्ना, निश्चितान्यथाऽनुपपत्तेरनुमानरूपत्वात् । न च सपक्षसद्भावासद्भावकृतोऽनुमानार्थापत्त्योर्भेदः, पक्षधर्मतासहितादनुमानात् तद्रहितस्य प्रमाणान्तरत्वानुषङ्गात् । न च पक्षधर्मत्ववन्ध्यमनुमानमेव नास्तीति वाच्यम् ,
"पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणताऽनुमा ।
सर्वलोकप्रसिद्धा, न पक्षधर्ममपेक्षते " ॥१॥ इति भट्टेन स्वयमभिधानात् ॥ यदपि
"प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । __ साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि" ॥१॥
सेति प्रत्यक्षाद्यनुत्पत्तिः, आत्मनो घटादिग्राहकतया परिणामाभावः प्रसज्यपक्षे, पर्युदासपक्षे पुनरन्यस्मिन् घटविविक्तताऽऽख्ये वस्तुन्यभावे घटो नास्तीति विज्ञानम् , इत्यभावप्रमाणमभिधीयते । तदपि यथासंभवं प्रत्यक्षाद्यन्तर्गतमेव, तथाहि
“गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम्।
मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया" ॥ १॥ इतीयमभावप्रमाणजनिका सामग्री । तत्र च भूतलादिकं वस्तु प्रत्यक्षेण घटादिभिः प्रतियोगिभिः संसृष्टम् , असंसृष्टं वा गृह्येत ?