________________
५०
प्रमाणनयतत्त्वालोकालङ्ककारः
नाद्यः पक्षः, प्रतियोगिसंसृष्टस्य भूतलादिवस्तुनः प्रत्यक्षेण ग्रहणे तत्र प्रतियोग्यभावग्राहकत्वेनाऽभावप्रमाणस्य प्रवृत्तिविरोधात् । प्रवृत्तौ वा न प्रामाण्यम् , प्रतियोगिनः सत्त्वेऽपि तत्प्रवृत्तेः । द्वितीयपक्षे तु; अभावप्रमाणवैयर्थ्यम् , प्रत्यक्षेणैव प्रतियोगिनां कुम्भादीनामभावप्रतिपत्तेः । अथ न संसृष्टं नाप्यसंसृष्टं प्रतियोगिभिर्भूतलादिवस्तु प्रत्यक्षेण गृह्यते, वस्तुमात्रस्य तेन ग्रहणाभ्युपगमादिति चेत् । तदपि दुष्टम् , संसृष्टत्वासंसृष्टत्वयोः परस्परपरिहारस्थितिरूपत्वनैकनिषेधेऽपरविधानस्य परिहर्तुमशक्यत्वात्, इति सदसद्रूपवस्तुग्रहणप्रवणेन प्रत्यक्षेणैवाऽयं वेद्यते । कचित्तु तदघटं भूतलमिति स्मरणेन, तदेवेदमघट भूतलमिति प्रत्यभिज्ञानेन, योऽग्निमान् न भवति नासौ धूमवानिति तर्केण, नात्र धूमोऽनग्नेरित्यनुमानेन, गृहे गर्गो नास्तीत्यागमेनाऽभावस्य प्रतीतेः क्काऽभावप्रमाणं प्रवर्तताम् ? ॥ ___ संभवोऽपि समुदायेन समुदायिनोऽवगम इत्येवंलक्षणः 'संभवति खार्या द्रोणः' इत्यादि नानुमानात् पृथक् , तथाहि-खारी द्रोणवती, खारीत्वात् , पूर्वोपलब्धखारीवत् ।।
ऐतिह्यं त्वनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमितीहोचुर्वृद्धाः, यथा'इह वटे यक्षः प्रतिवसति' इति । तदप्रमाणम् , अनिर्दिष्टप्रवक्तृकत्वेन सांशयिकृत्वात् , आप्तप्रवक्तृकत्वनिश्चये त्वागम इति ॥
. यदपि प्रातिभमक्षलिङ्गशब्दव्यापारानपेक्षमकस्मादेव 'अद्य मे महीपतिप्रसादो भविता' इत्याद्याकारं स्पष्टतया वेदनमुदयेत् , तदप्यनिन्द्रियनिबन्धनतया मानसमिति प्रत्यक्षकुक्षिनिक्षिप्तमेव । यत्पुनः प्रियाप्रियप्राप्तिप्रभृतिफलेन साधे गृहीतान्यथाऽनुपपत्तिकात्मनः प्रसादोद्वेगादेलिङ्गादुदेति, तत् पिपीलिकापटलोत्सर्पणोत्थज्ञानवदस्पष्टमनुमानमेव । इति न प्रत्यक्षपरोक्षलक्षणद्वैविध्यातिक्रमः शक्रेणाऽपि कर्तु शक्यः ॥ १॥ - प्रत्यक्षं लक्षयन्ति. . स्पष्टं प्रत्यक्षम् ॥ २॥