________________
रत्नाकरावतारिकायुक्तः। - प्रबलतरज्ञानावरणवीर्यान्तराययोः क्षयोपशमात् क्षयाद् वा स्पष्टताविशिष्टं वैशद्यास्पदीभूतं यत् तत् प्रत्यक्षं प्रत्येयम् ॥ २॥
स्पष्टत्वमेव स्पष्टयन्तिअनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् ॥३॥
अनुमानादिभ्यो वक्ष्यमाणपरोक्षप्रकारेभ्योऽतिरिकेण यद्विशेषाणां नियतवर्णसंस्थानाद्यर्थीकाराणां प्रतिभासनं ज्ञानस्य तत् स्पष्टत्वमिति ॥ ३॥
प्रत्यक्षस्य प्रकारप्रकाशनायाहुःतद् द्विप्रकारम्-सांव्यवहारिकं पारमार्थिकं च ॥४॥ ___संव्यवहारो बाधारहितप्रवृत्तिनिवृत्ती प्रयोजनमस्येति सांव्यवहारिकम् , बाह्येन्द्रियादिसामग्रीसापेक्षत्वादपारमार्थिकम् , अस्मदादिप्रत्यक्षमित्यर्थः । परमार्थे भवं पारमार्थिकं मुख्यम् , आत्मसंनिधिमात्रापेक्षम् , अवध्यादिप्रत्यक्षमित्यर्थः ॥ ४ ॥ ___ सांव्यवहारिकस्य प्रकारौ दर्शयन्तितत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च॥५॥ ____ इन्द्रियाणि चक्षुरादीनि निबन्धनमस्येतीन्द्रियनिबन्धनम् । नन्वि'न्द्रियज्ञाने मनोऽपि व्यापिपर्तीति कथं न तेन व्यपदेशः ?। उच्यतेइन्द्रियस्याऽसाधारणकारणत्वाद् , मनः पुनरनिन्द्रियवेदनेऽपि व्याप्रियत इति साधारणं तत् । असाधारणेन च व्यपदेशो दृश्यते, यथा-पय:पवनाऽऽतपादिजन्यत्वेऽप्यङ्करस्य बीजेनैव व्यपदेशः-शाल्यङ्कुरः, कोद्रवाङ्कुरोऽयमिति । अनिन्द्रियं मनो निबन्धनं यस्य तत्तथेति ।।
इदमिदानीं मनाग मीमांसामहे-प्राप्यकारीणीन्द्रियाणि, अप्राप्यकारीणि वेति । तत्र प्राप्यकारीण्येवेति कणभक्षाऽक्षपादमीमांसकसांख्याः समाख्यान्ति । चक्षुःश्रोत्रेतराण तानि तथेति ताथागताः । चक्षुर्वर्जानीति तु तथा स्याद्वादाऽवदातहृदयाः। तत्र प्रथमे प्रमाणयन्ति
चक्षुः प्राप्य मतिं करोति विषये बाहोन्द्रियत्वादितो.