________________
प्रमाणनयतत्त्वालोकालङ्कारःयद् बाह्येन्द्रियताऽऽदिना परिगतं तत् प्राप्यकारीक्षितम् । जिह्वावत् प्रकृतं तथा च विदितं तस्मात् तथा स्थीयतां ।
नाऽत्राऽसिद्धिमुखश्च दूषणकणस्तल्लक्षणाऽनीक्षणात् ॥ १॥ अद्रिचन्द्रकलनेषु या पुनयौंगपद्यधिषणा मनीषिणाम् । पद्मपत्रपटलीविलोपवत् सत्वरोदयनिबन्धनैव सा ॥२॥ प्रथमतः परिसृत्य शिलोच्चयं निकटतः क्षणमीक्षणमीक्षते । । तद्नु दूरतराम्बरमण्डलीतिलककान्तमुपेत्य सितत्विषम् ॥ ३॥ कुर्महेऽत्र वयमुत्तरकेली कीदृशी दृगिह धर्मितयोक्ता ? । किं नु मांसमयगोलकरूपा, सूक्ष्मताभृदपरा किमु काऽपि ? ॥४॥ आदिमा यदि तदाऽपि किमर्थो लोचनाऽनुसरणव्यसनी स्यात् ? । लोचनं किमुत वस्तुनि गत्वा संसजेत् प्रिय इव प्रणयिन्याम् ?॥५॥ प्रत्यक्षबाधः प्रथमप्रकारे प्राकारपृथ्वीधरसिन्धुरादिः । संलक्ष्यते पक्ष्मपुटोपटङ्की प्रत्यक्षकाले कलयाऽपि नो यत् ॥६॥ पक्षे परत्रापि स एव दोषः सर्पद् न वस्तु प्रतिवीक्ष्यतेऽक्षि । संसर्पणे वाऽस्य सकोटरत्वप्राप्त्या पुमान् किं न जरद्रुमः स्यात्।।७।।
चक्षुषः सूक्ष्मतापक्षे सूक्ष्मता स्यादमूर्तता ।
यद्वाऽल्पपरिमाणत्वमित्येषा कल्पनोभयी ॥ ८॥ स्याद् व्योमवद् व्यापकताप्रसक्त्या सर्वोपलम्भः प्रथमप्रकारे । प्राकारकान्तारविहारहारमुख्योपलम्भो न भवेद् द्वितीये ॥ ९॥ न खलु नखलु शस्त्रं स्वप्रमाणात् प्रथिष्ठे
पटकटशकटादौ भेदकारि प्रसिद्धम् । अथ निगदसि तस्मिन् रश्मिचक्र क्रमेण
प्रसरति तत एतत् स्यादनल्पप्रकाशम् ॥१०॥ तथाहि। प्रोदाममाणिक्यकणानुकारी दीपाङ्कुरस्त्विट्पटलीप्रभावात् ।
किं नैव कश्मीरजकजलादीन् प्रथीयसोऽपि प्रथयत्यशेषान् ? ॥११॥ नन्वेवमध्यक्षनिराक्रिया स्यात् पक्षे पुरस्तादुपलक्षितेऽस्मिन् ।