________________
रत्नाकरावतारिकायुक्तः। ५३ प्रौढप्रभामण्डलमण्डितोऽर्थों नाऽऽभासते यत्प्रतिभासमानः ॥ १२ ॥ अथाऽप्यनुद्भूततया प्रभायाः पदार्थसंपर्कजुषोऽप्यनीक्षा । सिद्धिस्तदानीं कथमस्तु तस्या ब्रवीषि चेत् तैजसताख्यहेतोः ॥१३॥ रूपादिमध्ये नियमेन रूपप्रकाशकत्वेन च तैजसत्वम् । प्रभाषसे चक्षुषि संप्रसिद्धं यथा प्रदीपाङ्कुरविद्युदादौ ॥ १४ ॥ तदिदं घुमृणविमिश्रणमन्ध्रपुरन्ध्रीकपोलपालीनाम् । .... अनुहरते व्यभिचाराद् रूपेक्षणसन्निकर्षेण ।। १५ ॥ द्रव्यत्वरूपेऽपि विशेषणे स्याद् हेतोरनैकान्तिकताऽञ्जनेन । तस्यापि चेत् तैजसतां तनोषि तन्वादिना किं नु तदाऽपराद्धम् ? ॥१६॥ सौवीरसौवर्चलसैन्धवादि निश्चिन्वते पार्थिवमेव धीराः । कृशानुभावोपगमोऽस्य तस्मादयुक्त एव प्रतिभात्यमीषाम् ॥१७॥ . तथा च• सौवीरसौवर्चलसैन्धवादिकं स्यादाकरोद्भूतिवशेन पार्थिवम् ।
मृदादिवद्, न व्यभिचारचेतनं चामीकरणाऽनुगुणं निरीक्ष्यते ॥१८॥ चामीकरादेरपि पार्थिवत्वं लिङ्गेन तेनैव निवेदनीयम् । शाब्दप्रमाणेन न चात्र बाधा पक्षस्य यद् नास्ति तदत्र सिद्धम् ॥१९॥ अञ्जनं मरिचरोचनादिकं पार्थिवं ननु तवाऽपि संमतम् । अञ्जनेऽपि तदसौ प्रवृत्तिमानप्रयोजकविडम्बडम्बरी ॥२०॥ हनूमल्लोललाङ्गेललम्बात् ते साधनादतः । न सिद्धिस्तैजसत्वस्य दृष्टसुस्पष्टदूषणात् ॥ २१ ॥ .. चक्षुर्न तैजसमभास्वरतिग्मभावा
दम्भोवदित्यनुमितिप्रतिषेधनाच्च । ... ___ सिद्धिं दधाति नयनस्य न तैजसत्वं
तस्मादमुष्य घटते किमु रश्मिवत्ता ? ॥ २२ ॥ अपि च, प्रत्यक्षबाधः समलक्षि पक्षे न रश्मयो यद् दृशि दृष्टपूर्वाः । तथा च शास्त्रेण तवैव कालातीतत्वदोषोऽप्युदपादि हेतोः ॥ २३ ॥