________________
५४ प्रमाणनयतत्त्वालोकालङ्कारःअनुद्भवद्रूपजुषो भवेयुश्चेद् रश्मयस्तत्र ततो न दोषः । नन्वेवमेतस्य पदार्थसार्थप्रकाशकत्वं न सुवर्णवत् स्यात् ॥ २४ ॥ आलोकसाचिव्यवशादथाऽस्य प्रकाशकत्वं घटनामियति । नन्वेवमेतत्सचिवस्य किं स्यात् प्रकाशकत्वं न कुटीकुटादेः ?॥२५॥ अथाऽस्तु कामं, ननु तैजसत्वमुत्तेजितं किं न भवेत् त्वयाऽस्य ?। तथा च नव्यस्त्वदुपज्ञ एषोऽद्वैतप्रवादोऽजनि तैजसत्वे ॥ २६॥
उत्पद्यन्ते तरणिकिरणश्रेणिसंपर्कतश्चेत् - तत्रोद्भूताः सपदि रुचयो लोचने रोचमानाः । यद् गृह्यन्ते न खलु तपनालोकसंपत्प्रतान___ स्तस्मिन् हेतुर्भवति हि दिवा दीपभासामभासः ॥ २७ ॥
अत्रेयं प्रतिक्रियामुष्टिग्राह्ये कुवलयदलश्यामलिग्नाऽवलिप्ते ___ स्फीते ध्वान्ते स्फुरति चरतो घूककाकोदरादेः । किं लक्ष्यन्ते क्षणमपि रुचो लोचनेनैव यस्मा. दालोकस्य प्रसरणकथा काचिदप्यत्र नास्ति ? ॥ २८॥ उत्पत्तिरुद्भूततयाऽथ तासां तत्रैव यत्राऽस्ति रविप्रकाशः । काकोदरादेरपि तर्हि नैताः कीटप्रकाशे कुशला भवेयुः ॥ २९ ॥ अविवरतिमिरव्यतिकरपरिकरिताऽपवरकोदरे कचन । वृषदंशशि न दृष्टा मरीचयः किमु कदाचिदथ ? ॥ ३० ॥ अत एव विलोकयन्ति सम्यक् तिमिराकूरकरम्बितेऽपि कोणे । मूषकपरिपन्थिनः पदार्थाज्वलनालोकविजृम्भणं विनैव ॥३१॥ अत्रोत्तरम्चाकचिक्यप्रतीभासमात्रमत्रास्ति वज्रवत् । नांशवः प्रसरन्तस्तु प्रेक्ष्यन्ते सूक्ष्मका अपि ॥ ३२ ॥ मार्जारस्य यदीक्षणप्रणयिनः केचिद् मयूखाः सखे ! विद्येरन् न तदा कथं निशि भृशं तच्चक्षुषा प्रेक्षिते । प्रोन्मीलत्करपुञ्जपिञ्जरतनौ संजातवत्युन्दुरे