SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ रत्नाकरावतारिकायुक्तः। ५५ प्रोज्जम्भेत तवाऽपि हन्त ! धिषणा दीप्रप्रदीपाद् यथा ?॥३३॥ कृशतरतया तेषां नो चेदुदेति मतिस्तव प्रभवति कथं तस्याऽप्यस्मिन्नसौ निरुपप्लवा ? । घटननिपुणा साक्षात् प्रेक्षाविधौ हि ततिस्त्विषां न खलु न समा धीमन् ! सा चोभयत्र विभाव्यते ॥ ३४ ॥ अमूदृग्मूषिकारीणां तस्मादस्ति स्वयोग्यता। यया तमस्यपीक्षन्ते न चक्षु रश्मिवत् पुनः ॥ ३५ ॥ . इत्थं न चक्षुषि कथञ्चिदपि प्रयाति संसिद्धिपद्धतिमियं खलु रश्मिवत्ता । तस्मात् कथं कथय तार्किक ! चक्षुषः स्यात् प्राप्यैव वस्तुनि मतिप्रतिबोधकत्वम् ? ॥ ३६॥ बहिरर्थग्रहोन्मुख्यं बहिष्कारणजन्यता । स्थायित्वं वा बहिर्देशे किं बाह्येन्द्रियता भवेत् ? ॥ ३७॥ तत्रादिमायां भिदि चेतसा स्यादेतस्य हेतोर्व्यभिचारचिह्नम् । अप्राप्यकारि प्रकरोति यस्माद् मन्दाकिनीमन्दरबुद्धिमेतत् ॥३८॥ दोषः स एवोत्तरकल्पनायां यदात्मनः पुद्गल एष बाह्यः । चेतश्च तस्मादुपजायमानमेतद् बहिष्कारणजन्यताभृत् ॥ ३९ ॥ चेतः सनातनतया कलितस्वरूपं सर्वापकृष्टपरिमाणपवित्रितं च । प्रायः प्रियः प्रणयिनीप्रणयातिरेका देतत् करोति हृदये न तु तर्कतज्ज्ञः॥४०॥ एतदत्र विततीक्रियमाणं प्रस्तुतेतरदिव प्रतिभाति । विस्तराय च भवेदिति चिन्त्यं तद् विलोक्य गुरुगुम्फितवृत्तिम्॥४१॥ पक्षे तृतीये विषयप्रदेशः शरीरदेशो यदि वा बहिः स्यात् ?। स्थायित्वमाद्ये विषयाश्रितत्वं यद्वा प्रवृत्तिविषयोन्मुखी स्यात्॥४२॥ प्राचीनपक्षे प्रतिवाद्यसिद्धिकलङ्कपङ्कः समुपैति हेतोः।
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy