________________
रत्नाकरावतारिकायुक्तः। ५५ प्रोज्जम्भेत तवाऽपि हन्त ! धिषणा दीप्रप्रदीपाद् यथा ?॥३३॥ कृशतरतया तेषां नो चेदुदेति मतिस्तव प्रभवति कथं तस्याऽप्यस्मिन्नसौ निरुपप्लवा ? । घटननिपुणा साक्षात् प्रेक्षाविधौ हि ततिस्त्विषां न खलु न समा धीमन् ! सा चोभयत्र विभाव्यते ॥ ३४ ॥ अमूदृग्मूषिकारीणां तस्मादस्ति स्वयोग्यता। यया तमस्यपीक्षन्ते न चक्षु रश्मिवत् पुनः ॥ ३५ ॥ . इत्थं न चक्षुषि कथञ्चिदपि प्रयाति
संसिद्धिपद्धतिमियं खलु रश्मिवत्ता । तस्मात् कथं कथय तार्किक ! चक्षुषः स्यात्
प्राप्यैव वस्तुनि मतिप्रतिबोधकत्वम् ? ॥ ३६॥ बहिरर्थग्रहोन्मुख्यं बहिष्कारणजन्यता । स्थायित्वं वा बहिर्देशे किं बाह्येन्द्रियता भवेत् ? ॥ ३७॥ तत्रादिमायां भिदि चेतसा स्यादेतस्य हेतोर्व्यभिचारचिह्नम् । अप्राप्यकारि प्रकरोति यस्माद् मन्दाकिनीमन्दरबुद्धिमेतत् ॥३८॥ दोषः स एवोत्तरकल्पनायां यदात्मनः पुद्गल एष बाह्यः । चेतश्च तस्मादुपजायमानमेतद् बहिष्कारणजन्यताभृत् ॥ ३९ ॥ चेतः सनातनतया कलितस्वरूपं
सर्वापकृष्टपरिमाणपवित्रितं च । प्रायः प्रियः प्रणयिनीप्रणयातिरेका
देतत् करोति हृदये न तु तर्कतज्ज्ञः॥४०॥ एतदत्र विततीक्रियमाणं प्रस्तुतेतरदिव प्रतिभाति । विस्तराय च भवेदिति चिन्त्यं तद् विलोक्य गुरुगुम्फितवृत्तिम्॥४१॥ पक्षे तृतीये विषयप्रदेशः शरीरदेशो यदि वा बहिः स्यात् ?। स्थायित्वमाद्ये विषयाश्रितत्वं यद्वा प्रवृत्तिविषयोन्मुखी स्यात्॥४२॥ प्राचीनपक्षे प्रतिवाद्यसिद्धिकलङ्कपङ्कः समुपैति हेतोः।