________________
५६' प्रमाणनयतत्त्वालोकालङ्कारःस्याद्वादिना यत् प्रतिवादिनाऽस्य नाऽङ्गीकृतं मेयसमाश्रितत्वम्।।४॥
पक्षे तथा साधनशून्यताऽस्मिन् दृष्टान्तदोषः प्रकटः पटूनाम् । , जिह्वेन्द्रियं नार्थसमाश्रितं यद् विलोकयामासुरमी कदाचित् ॥४४॥ द्वितीयकल्पे किमसौ प्रवृत्तिराभिमुख्येन विसर्पणं स्यात् ?।
आश्रित्य किं वा विषयप्रपञ्चं प्रतीतिसंपत्प्रतिबोधकत्वम् ? ॥४५॥ पक्षे पुरश्चारिणि सिद्धिवन्ध्यं स्यात् साधनं जैनमतानुगानाम् । यस्माद् न तैर्लोचनरश्मिचक्रमङ्गीकृतं वस्तुमुखं प्रसर्पत् ॥४६।। निदर्शनस्य स्फुटमेव दृष्ठं वैकल्यमत्रैव हि साधनेन । पदार्थसार्थ प्रति यद् न सर्पजिह्वेन्द्रियं केनचिदिष्टपूर्वम् ।। ४७ ।। पक्षान्तरे तु व्यभिचारमुद्रा किं चेतसा नैव समुज्जजम्भे ? । यस्मात् तदप्राप्य सुपर्वशैलस्वर्गे समुत्पादयति प्रतीतिम् ।। ४८ ॥ शरीरस्य बहिर्देशे स्थायित्वं यदि जल्प्यते । बाह्येन्द्रियत्वमत्र स्यात् संदिग्धव्यभिचारिता ॥४९॥ अप्राप्तार्थपरिच्छेदेनाऽपि साधै न विद्यते। हेतोर्बाह्येन्द्रियत्वस्य विरोधो बत कश्चन ॥ ५० ॥ कचित् साध्यनिवृत्त्या तु हेतुव्यावृत्तिदर्शनात् । प्रतिबन्धप्रसिद्धिश्चेत् तदाऽत्रापि कथं न सा ? ॥५१ ॥ रसनस्पर्शनघ्राणश्रोत्रान्येन्द्रियताबलात् । चक्षुरप्राप्यविज्ञातृ मनोवत् प्रतिपद्यताम् ।। ५२ ॥ साध्यव्यावृत्तितोऽत्रापि हेतुव्यावृत्तिरीक्षिता । न च कश्चिद् विशेषोऽस्ति येनैकत्रैव सा मता ॥ ५३ ॥ बाह्येन्द्रियत्वं सकलङ्कमेवं न तार्किकान् प्रीणयितुं तदीष्टे । भ्रूविभ्रमो दुर्भगभामिनीनां वैदग्ध्यभाजो भजते न चेतः ॥५४॥ किञ्चाऽत्र संसूचितमादिशब्दाद् वृत्ते पुरश्चारिणि कारकत्वम् । यत् प्राप्यकारित्वसमर्थनाय नेत्रस्य तत् काणगञ्जनाभम् ॥५५॥ यस्मादिदं मन्त्रजपोपसर्पत्प्रोदामरामाव्यभिचारदोषात् । उत्तालवेतालकरालकेलीकलङ्कितश्रीकमिवाऽवभाति ॥ ५६ ॥