________________
रत्नाकरावतारिकायुक्तः । तथाहिकनकनिकषस्निग्धां मुग्धां मुहुर्मधुरस्मितां
चटुलकुटिलभ्रूविभ्रान्तिं कटाक्षपटुच्छटाम् । त्रिजगति गतां कश्चिद् मन्त्री समानयति क्षणात्
तरुणरमणीमाराद् मन्त्रान् मनोभुवि संस्मरन् ॥ ५७ ॥ कश्चिदत्र गदति स्म यत् पुनमन्त्रमन्त्रणगवी समानयेत् । युक्तमेव मदिरेक्षणादिकं तेन नाऽभिहितदूषणोदयः ॥ ५८ ॥ मन्त्रस्य साक्षाद् घटना प्रियादिना परम्परातो यदि वा निगद्यते । साक्षाद् न तावद् यदयं विहायसो ध्वनिस्वरूपस्तव संमतो गुणः ।।५९॥ ततोऽस्य तेनैव समं समस्ति संसक्तिवार्ता न तु पक्ष्मलाक्ष्या । अथाऽक्षरालम्बनवेदनं स्याद् मन्त्रस्तथाऽप्यस्त्वियमात्मनैव ॥ ६०॥ अथापि मन्त्रस्य निवद्यते त्वया संसक्तिरेतत्पतिदेवताऽऽत्मना । • संतोषपोषप्रगुणा च सा प्रियां प्रियं प्रति प्रेरयति स्वयोगिनीम् ।।६१॥
ब्रूमहेऽत्र ननु देवताऽऽत्मना मन्त्रवर्णविसरस्य का घटा ?। अम्बरस्य गुण एष तत् कथं देवताऽऽत्मनि भजेत सङ्गतिम् ? ॥६२॥
आश्रयद्वारतोऽप्यस्य संसर्गो नास्ति सर्वथा।
व्यापकद्रव्ययोर्यस्मात् संसर्गो नाऽमुना मतः ॥ ६३ ॥ व्यापकेषु वदति व्यतिषङ्गं यस्तु तेन मनसा ध्वनिना च । वीतवस्तुविषयेण विमृश्यः स्पष्ट एव विलसन् व्यभिचारः ॥६४॥
अयस्कान्तादनेकान्तस्तथाऽत्र परिभाव्यताम् ।
आक्षेपश्च समाधिश्च ज्ञेयौ रत्नाकरादिह ।। ६५ ।। कारकत्वमपि तद् न शोभते प्राप्यकारिणि यदीक्षणे मतम् । प्राप्य वस्तु वितनोति तद् मतिं नैव चक्षुरिति तत्त्वनिर्णयः ।।६६।। अद्रिचन्द्रकलनेषु येत्यदः प्राक् प्ररूपितमुपैति नो घटाम् ।
रश्मिसंचयविपश्चितं हि तत् ते च तत्र नितरां व्यपाकृताः॥६॥ किञ्च,
१ किमपीति पाठान्तरम् ।