________________
प्रमाणनयतत्वालोकालङ्कारःचक्षुरप्राप्यधीकृद् व्यवधिमतोऽपि प्रकाशकं यस्मात् । अन्तःकरणं यद्वद् व्यतिरेके स्यात् पुनारसना ॥ ६८ ॥ अथ द्रुमादिव्यवधानभाजः प्रकाशकत्वं ददृशे न दृष्टौ । ततोऽप्ययं हेतुरसिद्धतायां धौरेयभावं बिभराम्बभूव ॥ ६९ ॥ एतद् न युक्तं शतकोटिकाचस्वच्छोदकस्फाटिकभित्तिमुख्यैः । पदार्थपुजे व्यवधानभाजि संजायते किं नयनाद् न संवित्?॥७०॥ दम्भोलिप्रभृतिप्रभिद्यभिदुराश्चेद् रोचिषश्चक्षुषः
संसर्गोपगताः पदार्थपटली पश्यन्ति तत्र स्थिताम् । एवं तर्हि समुच्छलन्मलभरं भित्त्वा जलं तत्क्षणात्
तेनाऽप्यन्तरितस्थितीननिमिषानालोकयेयुन किम् ? ॥७१।। विध्यातास्तेन ते चेद् विमलजलभरात् किं भजन्ते न शान्ति ?
किञ्चाऽम्भः काचकूपोदरंविवरगतं निष्पतेत् तत् तदानीम् । दोषश्चेद् नैष तूर्ण यदयमुदयते नूतनव्यूहरूपः
सर्पेयुस्तहि नैताः कथमपि रुचयो लोचनस्यापि तस्मिन्॥७२॥ भवति परिगमश्चेद् वेगवत्त्वादमीषां
कतिपयकलयाऽस्तु क्षीरपातस्तदानीम् । न च भवति कदाचिद् बुबुदस्यापि तस्मात्
प्रपतनमिति युक्तस्तस्य नाशः किमाशु ? ॥ ७३ ॥ किश्व, कलशकुलिशप्राकाराद्यत्रिविष्टपकन्दरा
कुहरकलितं विश्वं वस्तु प्रतिक्षणभङ्गुरम् । ज्वलनकलिकावत् किन्त्वस्मिन् निरन्तरताभ्रमः - प्रभवति, वदन्नित्थं शाक्यः कथं प्रतिहन्यते ? ॥ ७४ ॥ तस्थौ स्थेमा तदस्मिन् व्यवधिमदमुना प्रेक्ष्यते येन सर्व
तत् सिद्धा नेत्रबुद्धिर्व्यवधिपरिगतस्यापि भावस्य सम्यक् । कुड्यावष्टब्धबुद्धिर्भवति किमु न चेद् नेदृशी योग्यताऽस्य
प्राप्तस्यापि प्रकाशे प्रभवति न कथं लोचनाद् गन्धबुद्धिः ?।।७५।।