________________
रत्नाकरावतारिकायुक्तः। ५९ किं वा न प्रतिभासते शशधरे कर्मापि तद्रूपवद् ?
दूराञ्चेद् विलसत् तदस्य हृदये लक्ष्येत किं लाञ्छनम् ? । तस्माचक्षुषि योग्यतैव शरणं साक्षी च नः प्रत्ययस्तत् तर्कप्रगुण ! प्रतीहि नयनेष्वप्राप्यधीकर्तृताम् ॥ ७६ ॥ बौद्धाः पुनरिदमाहुः श्रोत्रं न प्राप्यबुद्धिमाधत्ते ।
दिग्देशव्यपदेशान् करोति शब्दे यतो दृग्वत् ।। ७७ ॥ तथाहिप्राच्यामत्र विजृम्भते जलमुचामत्यूजितं गजितं
प्रोन्मीलत्यलमेष चातकरवोऽक्षामः क्षणं दक्षिणः । केकाः केकिकुटुम्बकस्य विलसन्येताः कलाः काननाद्
दिग्देशव्यपदेशवानिति न किं शब्देऽस्ति संप्रत्ययः ? ॥७८।। प्राप्यकारि यदि तु श्रवणं स्यात् तर्हि तत्र न कथञ्चन सैषः । प्रस्तुतः समुदियाद् व्यपदेशः शर्करास्पृशि यथा रसनायाम् ॥७९॥ वेश्याऽनुरागप्रतिमं तदेतत् सुस्पष्टदृष्टव्यभिचारदोषात् ।
घ्राणं यदेतद् व्यपेदशभाजं प्राप्तप्रकाशं कुरुते मनीषाम् ॥८॥ तथा चमन्दं मन्दमुदेत्ययं परिमलः प्राग् माधवीमण्डपाद्
भूयः सौरभमुद्वमन्त्युपवने फुल्लाः स्फुटं मल्लिकाः । गन्धो बन्धुर एष दक्षिणदिशः श्रीचन्दनात् प्राप्तवानित्येवं ननु विद्यते तनुभृतां घ्राणात् तथा प्रत्ययः ॥८१॥ अस्ति त्वगिन्द्रियेणापि व्यभिचारविनिश्चयः ।
शेमुषीमादधानेन दिग्देशव्यपदेशिनीम् ।। ८२ ॥ तथाहिसेयं समीरलहरी हरिचन्दनेन्दुसंवादिनी वनभुवः प्रसभं प्रवृत्ता। स्फीतस्फुरत्पुलकपल्लविताङ्गन्याष्टिं मामातनोति तरुणीकरपल्लवश्च ॥८॥
अथानुमानादधिगम्य तेषां हेतूंस्ततस्तद्वयपदेशिनी धीः । १ गगनाद् नवचन्द्रिका चेति च पाठः ।