________________
प्रमाणनयतत्त्वालोकालङ्कारःन घ्राणतः स्पर्शनतश्च तादृक् प्रत्यक्षरूपा प्रथते मनीषा ॥८४॥ श्रोत्रेऽपि सर्व तदिदं समानमालोकमानोऽपि न मन्यसे किम् ? । दृष्टव्यलीकामपि कामिनी यत् संमन्यते कामुक एव साध्वीम्।।८५।। स्मृत्वा यथैव प्रतिबन्धमाशु शङ्खादिशब्दोऽयमिति प्रतीतिः । प्राच्यादिदूरादिगतेऽपि शब्दे तथैव युक्ता प्रतिपत्तिरेषा ।। ८६ ।। दिग्देशानां श्रुतिविषयता किञ्च नो युक्तियुक्ता
युक्तत्वे वा भवति न कथं ध्वानरूपत्वमेषाम् । तस्माद् भिन्नप्रमितिविषयास्ते विशिंषन्ति शब्दं
सिद्धे चैवं भवतु सुतरां साधने साऽप्यसिद्धिः ॥ ८७ ॥ अपि च, गृह्यते यदि विनैष सङ्गतिं किं तदाऽनुगुणमारुते ध्वनौ ? । दूरतोऽपि धिषणा समुन्मिषेदन्यथा तु निकटेऽपि नैव सा ।।८८।। मुहुर्मरुति मन्थरं स्फुरति सानुलोमागमे
समुल्लसितवल्लकीकणकलाकलापप्लुता । सकामनवकामिनीकलितघोलनाडम्बरा
न किं निशि निशम्यते सपदि दूरतः काकली ? ॥ ८९ ॥ पटुघटितकपाटसंपुटौघे भवति कथं सदनेऽथ शब्दबुद्धिः ? । पटुघटितकपाटसंपुटौघे भवति कथं स्दनेऽपि गन्धबुद्धिः ? ॥९०॥ तथाहिकर्पूरपारीपरिरम्भभाजि श्रीखण्डखण्डे मृगनाभिमिश्रे । धूमायमाने पिहितेऽप्यगारे गन्धप्रबन्धो बहिरभ्युपैति ॥ ९१ ॥ द्वारावृतेऽपि सदने प्रणयप्रकर्षा
देवं प्रिये स्फुरदपत्रपया स्खलन्ती । द्वारि स्थितस्य सरसा कुलबालिकायाः
कर्णातिथीभवति मन्मनसूक्तिमुद्रा ॥ ९२ ॥ एवं च प्राप्त एवैष शब्दः श्रोत्रेण गृह्यते । श्रोत्रस्याऽपि ततः सिद्धा निर्बाधा प्राप्यकारिता ॥ ९३ ॥