________________
रत्नाकरावतारिकायुक्तः। अथाऽस्य द्विविधस्यापि प्रकारान् प्रकटयन्तिएतद्वितयमवग्रहेहावायधारणाभेदादेकशश्च- .
तुर्विकल्पम् ॥ ६॥ अवग्रहश्वेहा चाऽवायश्च धारणा च ताभिर्भेदो विशेषस्तस्मात् , प्रत्येकमिन्द्रियानिन्द्रियनिबन्धनप्रत्यक्षं चतुर्भेदमिति ॥ ६ ॥
अवग्रहादीनां स्वरूपं सूत्रचतुष्टयेन स्पष्टयन्ति
विषयविषयिसंनिपातानन्तरसमुद्भूतसत्तामात्र. गोचरदर्शनाजातमाद्यमवान्तरसामान्याका
रविशिष्टवस्तुग्रहणमवग्रहः ॥ ७ ॥ विषयः सामान्यविशेषात्मकोऽर्थः, विषयी चक्षुरादिः, तयोः समीचीनो भ्रान्त्याद्यजनकत्वेनाऽनुकूलो निपातो योग्यदेशाद्यवस्थानं तस्मादनन्तरं समुद्भूतमुत्पन्नं यत् सत्तामात्रगोचरं निःशेषविशेषवैमुख्येन सन्मात्रविषयं दर्शनं निराकारो बोधस्तस्माद् जातमाद्यं सत्त्वसामान्यादवान्तरैः सामान्याकारैर्मनुष्यत्वादिभिर्जातिविशेषैर्विशिष्टस्य वस्तुनो यद् ग्रहणं ज्ञानं तदवग्रह' इति नाम्ना गीयते ॥ ७ ॥
अवगृहीतार्थविशेषाऽऽकाङ्क्षणमीहा ॥८॥
अवगृहीतोऽवग्रहेण विषयीकृतो योऽर्थोऽवान्तरमनुष्यत्वादिजातिविशेषलक्षणस्तस्य विशेषः कर्णाटलाटादिभेदस्तस्याकाणं भवितव्यताप्रत्ययरूपतया ग्रहणाभिमुख्यमीहेत्यभिधीयते ॥ ८ ॥
ईहितविशेषनिर्णयोऽवायः॥ ९॥ ईहितस्येहया विषयीकृतस्य विशेषस्य कर्णाटलाटादेनिर्णयो याथात्म्येनाऽवधारणमवाय इति कीर्यते ॥ ९ ॥
स एव दृढतमावस्थापन्नो धारणा ॥१०॥ स इत्यवायो दृढतमावस्थापनो विवक्षितविषयावसाय एव सा
इाहतान