________________
६२
प्रमाणनयतत्त्वालोकालङ्कारःदरस्य प्रमातुरत्यन्तोपचितः कश्चित् कालं तिष्ठन् धारणेत्यभिधीयते । दृढतमावस्थापन्नो ह्यवायः खोपढौकितात्मशक्तिविशेषरूपसंस्कारद्वारेण कालान्तरे स्मरणं कर्तु पर्याप्नोतीति ॥ १० ॥ नन्वनिश्चयरूपत्वादीहायाः संशयस्वभावतैव, इत्यारेकामपाकुर्वन्तिसंशयपूर्वकत्वादीहायाः संशयाद् भेदः ॥११॥ .
पुरुषावग्रहानन्तरं हि किमयं दाक्षिणात्य उतोदीच्य इत्यनेककोटिपरामर्शिसंशयः, ततोऽपि प्रमातुर्विशेषलिप्सायां दाक्षिणात्येनाऽनेन भवितव्यमित्येवमीहा जायते; इति हेतुहेतुमद्भावात् तन्तुपटवद् व्यक्तमनयोः पृथक्त्वम् ॥ ११ ॥
दर्शनादीनां कथञ्चिव्यतिरेकेऽपि संज्ञाभेदं समर्थयन्तेकथञ्चिदभेदेऽपि परिणामविशेषादेषां व्यपदेशभेदः॥१२॥
यदप्येकजीवद्रव्यतादात्म्येन द्रव्यार्थादेशादमीषामैक्यम् , तथापि पर्यायार्थादेशाद् भेदोऽपीति तदपेक्षया व्यपदेशभेदोऽपि सूपपाद इति ॥१२॥
अथाऽमीषां भेदं भावयन्तिअसामस्त्येनाऽप्युत्पद्यमानत्वेनाऽसंकीर्णखभावतया ऽनुभूयमानत्वात्, अपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात्, क्रमभावित्वाच्चैते व्यतिरिच्यन्ते ॥ १३ ॥ __ असंकीर्णस्वभावतया परस्परस्वरूपवैविक्त्येनाऽनुभूयमानत्वाद् दर्शनादयो भिद्यन्ते, तथाऽनुभवनमप्यमीषामसामस्त्येनाऽप्येकद्वित्र्यादिसंख्यतयोत्पद्यमानत्वादवसेयम् , तथाहि-प्रमातुर्विचित्रक्षयोपशमवशात् कदाचिद् दर्शनमेव, कदाचिद् दर्शनावग्रहौ, कदाचिद् दर्शनावग्रहसंशयादयः क्रमेण समुन्मजन्तीति, सिद्धमतोऽसंकीर्णत्वेनैतेषामनुभवनम् । अपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वक्रमभावित्वे अपि प्रत्यात्मवेद्ये एव । अत्र प्रयोगाः पुनरेवम्-येऽसंकीर्णस्वभावतयाऽनुभूयन्ते, अपूर्वापूर्ववस्तुपर्यायप्रकाशकाः, क्रमभाविनो वा, ते परस्परं