SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ रत्नाकरावतारिकायुक्तः। ६३ व्यतिरिच्यन्ते, यथा स्तम्भादयः, अनुमानादयः, अङ्कुरकन्दलकाण्डादयो वा, तथा चैत इति ॥ १३ ॥ अथाऽमीषां क्रमनियमार्थमाहुःक्रमोऽप्यमीषामयमेव तथैव संवेदनात, एवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच्च ॥ १४॥ अयमेव दर्शनावग्रहादिरमीषां क्रमः, तेनैव क्रमेणानुभवात्-यदेव हि सन्मात्रमैक्षि, तदेव वर्णाद्याकारेण केनचिदवाग्राहि, तदनन्तरमनिर्धारितरूपतया संदेहास्पदीचक्रे, ततोऽपि नियताकारेणेहामासे, ततोऽपीहिताकारेण निरणायि, पुनः कालान्तरे स्मृतिहेतुत्वेन धारयाञ्चक्रे इति सर्वैरनुभूयते । दर्शनज्ञानावरणक्षयोपशमलक्षणकारणेनाऽप्येवमेव भूष्णुनाऽमीषामुत्पाद्यत्वाचाऽयमेव क्रमः, क्रमोत्पदिष्णुना हि कारणेन क्रमेणैव स्वकार्य जनयितव्यम् , यथा स्थासकोशकुशूलच्छत्रादिनेति ॥ १४ ॥ व्यतिरेके दोषमाहुः अन्यथा प्रमेयानवगतिप्रसङ्गः ॥ १५ ॥ अन्यथेति यथोक्तक्रमानभ्युपगमे, प्रतीयमानक्रमापह्नवे हि दर्शनादीनां प्रमेयापह्नव एव कृतो भवतीति ॥ १५ ॥ उक्तमेव क्रमं व्यतिरेकद्वारा समर्थयन्तेन खल्वदृष्टमवगृह्यते, न चाऽनवगृहीतं संदिह्यते, न चाऽसंदिग्धमीयते, न चानीहितमवेयते, नाप्यनवेतं धार्यते ॥ १६ ॥ स्पष्टम् ॥ १३ ॥ कचिदेषां तथाक्रमानुपलक्षणे कारणमाहुःकचित् क्रमस्याऽनुपलक्षणमेषामाशूत्पादात् , उत्पलपत्रशतव्यतिभेदक्रमवत् ॥ १७ ॥
SR No.002366
Book TitlePraman Naytattvalokalankar Ratnakaravatarika
Original Sutra AuthorN/A
AuthorVadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
PublisherDharmabhyuday Press
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy