________________
६४. प्रमाणनयतत्त्वालोकालङ्कारः
कचिदित्यभ्यस्ते करतलादौ गोचरे, शेषं व्यक्तम् ॥ १७ ॥ पारमार्थिकप्रत्यक्षं लक्षयन्तिपारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् ॥ १८ ॥
क्षयक्षयोपशमविशेषविशिष्टमात्मद्रव्यमेवाऽव्यवहितं समाश्रित्य पारमार्थिकमेतदवध्यादिप्रत्यक्षमुन्मज्जति, न पुनः सांव्यवहारिकमिवेन्द्रियादिव्यवहितमात्मद्रव्यमाश्रित्येति भावः ॥ १८ ॥ __अस्य भेदावुपदिशन्ति- तद् विकलं सकलं च ॥ १९ ॥ असंपूर्णपदार्थपरिच्छेदकत्वाद् विकलम् , तद्विपरीतं तु सकलम्॥१९॥
विकलं भेदतो दर्शयन्तितत्र विकलमवधिमनःपर्यायज्ञानरूपतया द्वेधा ॥२०॥ सुगमम् ॥ २० ॥ अवधिं लक्षयन्तिअवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं
रूपिद्रव्यगोचरमवधिज्ञानम् ॥ २१ ॥ अवधिज्ञानावरणस्य विलयविशेषः क्षयोपशमभेदस्तस्मात् समुद्भवति यत् , भवः सुरनारकजन्मलक्षणः, गुणः सम्यग्दर्शनादिः, तौ प्रत्ययौ हेतू यस्य तत्तथा । तत्र भवप्रत्ययं सुरनारकाणाम् , गुणप्रत्ययं पुनर्नरतिरश्वाम् । रूपिद्रव्यगोचरं रूपिद्रव्याणि पृथिवीपाथःपावकपवनान्धकारच्छायाप्रभृतीनि तदालम्बनमवधिज्ञानं ज्ञेयम् ॥
अत्र न्यायमार्गानुयायिनः संगिरन्ते-ननु पृथिव्यादीनां चतुणी सकर्णा वर्णयन्तु द्रव्यताम् , तिमिरच्छाययोस्तु द्रव्यतावाचोयुक्तियुक्तिरिक्तैव, भासामभाव एव हि तमश्छाये गदतां सच्छाये, तथाहिशशधरदिनकरकरनिकरनिरन्तरप्रसरासम्भवे सर्वतोऽपि सति तमइति प्रतीयते, यदा तु प्रतिनियतप्रदेशेनाऽऽतपत्रादिना प्रतिबद्धस्ते