________________
रत्नाकरावतारिकायुक्तः। जःपुखो यत्र यत्र न संयुज्यते तदा तत्र तत्र च्छायेति प्रतीयते, प्रतिबन्धकाभावे तु स्वरूपेणाऽऽलोकः समालोक्यत इत्यालोकाभावएव तमश्छाये । यदि च तमो द्रव्यं भवेत् , तदा रूपिद्रव्यसंस्पर्शाव्यभिचारात् स्पर्शवद्रव्यस्य च महतः प्रतिघातहेतुत्वात् तरलतरतुङ्गतङ्गत्तरङ्गपरम्परोपेतपारावारावतार इव, प्रथमजलधरधाराधोरणीधौताअनगिरिगरीयःशृङ्गप्रतिवादिनीव, निर्यन्निर्झरझात्कारिवारिदुरिशीकरासारसिच्यमानाभिरामाऽऽराममहीरुहसमूहप्रतिच्छन्द इव च प्रवृत्ते तिमिरभरे संचरतः पुंसः प्रतिबन्धः स्यात् । भूगोलकस्येव चाऽ. स्याऽवयवभूतानि खण्डावयविद्रव्याणि प्रतीयेरन् , एवं छायायामपि, इति कथं ते द्रव्ये भवेताम् ? ॥
अत्राभिदध्महे- तमसस्तावदभावस्वभावतास्वीकृतिरानुभविकी, आनुमानिकी वा ? । न तावदानुभविकी, यतोऽभावानुभवो भावान्तरोपलम्भे सत्येव संभवी, कुम्भाभावोपलम्भवत् । न च प्रचुरतरतिमिरनिकरपरिकरितापवरकोदरे स्वकरतलादिमात्रस्याऽप्युपलम्भः संभवति, तत्कथं सदनुभूतिर्भवेत् ? । कथं वा प्रदीपादिप्रभाप्राग्भारप्रोज्जृम्भणमन्तेरणाऽस्योपलम्भः ?, कुम्भाधभावो हि तद्भावे एवानुभूयमानो दृष्टः, तत् कथमेष न्यायमुद्रातिक्रमो न कृतः स्यात् ?। अथ यो भावो यावता सामग्येण गृह्यते तदभावोऽपि तावतैव तेन, तदिहालोकस्य स्वातन्त्र्येणालोकान्तरमन्तरेणैव ग्रहणमालोकितम् , इति तदभावस्यापि तत् किं नस्यात् ?, इति चेत् । अहो! पीतविषस्याऽप्यमृतो. द्गारः, एवं वदता त्वयैव तमसि द्रव्यताव्याहारात् । किमिदमीशमिन्द्रजालम् ? इति चेत् । इदमीदृशमेवेन्द्रजालमालोक्यताम्-आलोकः किल चक्षुषा संयोगाद् गृह्यते, यदि च तदभावस्यापि तत्सामग्येणैव ग्रहणं स्यात् , तदा तस्यापि ग्रहणे चक्षुःसंयोगसद्भावादायाता द्रव्यतापत्तिः, संयोगस्य गुणत्वेन तद्वृत्तित्वात् । अथाऽसंयुक्तोऽप्ययं प्रेक्ष्यते, तदा कथं यो भावो यावतेत्याचं मृषोद्यं न स्यात् ?; कथं वा चक्षुषः प्राप्यकारिताप्रवादः सूपपादः स्यात् ? । विशेषणविशेष्य