________________
६६ प्रमाणनयतत्त्वालोकालङ्कारःभावसंबन्धबन्धुरस्यान्धकारस्य ग्रहणादयमदोष इति चेत् । कतमस्यैष विशेषणम् ? । न शरीरस्य, तदन्यत्रापि प्रतिभासनात् । नापि भूतलकलशकुड्यादेः, तत एव । तर्हि भवतु नभस इति चेत् । तदशस्यम् , एतस्य तद्विशेषणविशेष्यीभावेन कदाचिदप्रतिभासनात् । तन्नतदभावतास्वीकृतिरानुभविकी भव्या ।। _ नाऽप्यानुमानिकी, यतः कतमोऽत्र हेतुराख्यायते सङ्ख्यावता?किं भाववैलक्षण्येन लक्ष्यमाणत्वम् , भावविलक्षणसामग्रीसमुत्पाद्यत्वम् , असत्येवाऽऽलोके तत्प्रतिभासनम्, आलोकग्रहणसामग्ऱ्या गृह्यमाणत्वम्, तिमिरद्रव्योत्पादककारणाभावः, द्रव्यगुणकर्मातिरिक्तकार्यत्वम् , आलोकविरोधित्वम् , भावरूपताप्रसाधकप्रमाणाभावो वा ?, इत्यष्टपक्षी राक्षसीव त्वत्पक्षभक्ष्यभक्षणविचक्षणोपतिष्ठते ॥ ____तत्र न तावदाऽऽद्यः पक्षः क्षेमङ्करः, 'कुम्भोऽयं स्तम्भोऽयम्' इति हि यथा कुम्भादयो भावा विधिमुखेन प्रत्यक्षेण प्रेक्ष्यन्ते, तथेदं तम इति तमोऽपि, अभावरूपतायां तस्य प्रतिषेधमुखेन प्रत्ययः प्रादुःध्यात्, यथा कुम्भोऽत्र नास्तीति । ननु नाशप्रध्वंसादिप्रत्यया विधिमुखेनाऽपि प्रवर्तमाना दृश्यन्ते । नैवम् , नाशादिशब्दानामेव भावप्रतिषेधाभिधायकत्वात् , अत एव हि कुम्भस्य प्रध्वंस इति सोपपदानामेषां प्रयोगोपपत्तिः, यदि तु तमःप्रभृतिशब्दा अपि तत्समानार्थतामाबिधीरन् , तदानीं कुम्भस्याऽभाव इतिवदालोकस्य तम इत्यपि प्रोच्येत, न चैवं कश्चिद् विपश्चिदपि प्रवक्ति । अथालोकाभावे संकेतितस्तमःशब्दः, नाभावमात्रे; ततो न तथा व्यपदेश इति चेत् । नैवम् , यदि ह्यन्धकाररूपोऽभावोऽपि विधिमुखेन वीक्ष्येत, तदानी किमन्यदेतस्य भाववैलक्षण्येन लक्ष्यमाणत्वं स्यात् ? यतो हेतुसिद्धिर्भवेत् ॥ ...... अथ भावविलक्षणसामग्रीसमुत्पाद्यत्वं हेतुः, तथाहि-समवाप्यसमवायिनिमित्तकारणकलापव्यापाररूपा भावोत्पादिका सामग्री, नैव व्रमसायं समगस्त । तदशस्तम्, यतः किमिदं समवायिकारण