________________
रत्नाकरावतारिकायुक्तः। ६७ नाम्ना त्वमाम्नासीः ? । यत्र कार्य समवेतमुत्पद्यते तदिति चेत् । तदसम्यक्, समवायस्य निरन्तरसुहृद्रोष्ठीषु गौरवाहत्वात् ; तत्प्रसाधकत्वाभिमतस्य ‘इह तन्तुषु पटः' इत्यादिप्रत्ययस्याप्रसिद्धः, 'पटे तन्तवः' इत्यादिरूपस्याऽस्याऽऽबालगोपालं प्रतीतत्वात् , सिद्धौ वा इह भूतले घटाभाव इत्यभावप्रत्ययेन व्यभिचारात् । संबन्धमात्रपूर्वताप्रसाधने सिद्धसाधनात् , अविष्वग्भावमात्रनिमित्ततया तदङ्गीकारात् । एकान्तैकस्वरूपत्वेन चाऽस्यैकवस्तुसमवायसंभवे समस्तवस्तुसमवायस्य, विनश्यदेकवस्तुसमवायाभावे समस्तवस्तुसमवायाभावस्य वा प्रसङ्गात् । तत्तदवच्छेदकभेदात् तदुपपत्तौ तस्यापि कथञ्चिद्भेदापत्तेः, अ. नेकपुरुषावच्छिन्नपर्षदादेरपि तावत्स्वभावभावेन कथञ्चिद्भेदात् । अप्रच्युतानुत्पन्नस्थिरैकरूपतया चाऽस्याऽऽकाशसामान्याद्येतादृग्वस्तुसमाश्रितत्वमेव भवेद्, न तु कार्यवस्तुसमाश्रितत्वम् । तत्तत्सहकारिकारणकलापोपनिपातप्रभावात् कार्यसमवायस्वीकारोऽपि सनिकारः, तत्स्वभावप्रभावप्रतिबद्धानां तेषामपि सदा सन्निधानप्रधानत्वात् , तथा चास्तमिता समवायिकारणकिंवदन्ती। तदसत्त्वे किमसमवायिकारणम्?, समवायिकारणप्रत्यासन्नत्वं हि तल्लक्षणम् , तदसत्त्वे कथमेतत् स्यात् ?। तथा च तच्छेषभूतस्य निमित्तकारणस्यापि का व्यवस्था ?। सन्तु वा कारणान्यमूनि, तथापि यथा कथञ्चिदालोककलापस्योत्पादः,तथा तमसोऽपि भविष्यति, किमरुचिविरचनाभिर्व्यपासितुं शक्यते? किमस्योत्पादकमिति चेत् । आलोकस्य किमिति वाच्यम् ? तेजोऽणव इति चेत् । अस्यापि तमोऽणव एव सन्तु। सिद्धास्तावत् तैजसास्तेऽविवादेन वादिप्रतिवादिनोरिति चेत् । तामसा अपि तद्वदेव किं न सेत्स्यन्ति ?, इति त्यज्यतामाग्रहः ॥ . असत्येवाऽऽलोके तत्प्रतिभासनमप्यसम्यक् , न हि यस्मिन्नसत्येव यत् प्रतिभासते तत् तदभावमात्रमेव भवति, असत्येव व्यवधाने प्रतिभासमानैर्घटादिभिर्व्यभिचारात् । कथं च नैवं प्रतिबन्धकेऽसत्येव समुत्पद्यमानस्य स्फोटस्यापि तदभावमात्रता स्यात् ? । अथ स्फोटो