________________
प्रमाणनयतत्वालोकालङ्कार:दाहकात्मकतया स्पार्शनप्रत्यक्षेणाऽनुभूयते, अभावमात्रतायां हि तस्य नेयमोपपत्तिकी स्यात् , तार्ह तमोऽपि शैत्येन तेनैव प्रत्यक्षेण प्रेक्ष्यमाणं कथमभावस्वभावं भवेत् ॥ ... अथालोकग्रहणसामग्था गृह्यमाणत्वं हेतुः, तथा च शङ्करन्यायभूषणौ-"यो हि भावो यावत्या सामाग्या गृह्यते तदभावोऽपि तावत्यैव, इत्यालोकग्रहणसामग्ऱ्या गृह्यमाणं तमस्तदभाव एवेति". । तदपि न किञ्चित् , तमोग्रहणसामग्या गृह्यमाणस्यालोकस्यैव तदभावताप्रसङ्गेनाऽनैकान्तिकत्वात् , घटपटयोर्वा समानग्रहणसामग्रीकतया परस्पराभावत्वप्रसङ्गात् ॥
अथ तिमिरद्रव्योत्पादककारणाभावो हेतुः, तथा च श्रीधरःतमःपरमाणवः स्पर्शवन्तः, तद्रहिता वा ? । न तावत् स्पर्शवन्तः, स्पशैवतस्तत्कार्यद्रव्यस्य कचिदप्यनुपलम्भात् । अदृष्टव्यापाराभावात् स्पवित्कार्यद्रव्याऽनारम्भका इति चेत् । रूपवन्तो वायुपरमाणवोऽदृष्टव्यापारवैगुण्याद् रूपवत् कार्य नारभन्ते इति किं न कल्प्येत?, किंवा न कल्पितमेकजातीयादेव परमाणोरदृष्टोपग्रहाचतुर्धा कार्याणि जायन्तइति ? । कार्यकसमधिगम्याः परमाणको यथाकार्यमुन्नीयन्ते, न तद्विलक्षणाः, प्रमाणाभावादिति चेत् । एवं तर्हि तामसाः परमाणवोऽप्यस्पर्शवन्तः कल्पनीयाः, तादृशाश्च कथं तमोद्रव्यमारभेरन् ? । अस्पर्शवत्त्वस्य कार्यद्रव्यानारम्भकत्वेनाऽव्यभिचारोपलम्भात् । कार्यदर्शनात् तदनुगुणं कारणं कल्प्यते, न तु कारणवैकल्येन दृष्टकार्यविपर्यासो युज्यत इति चेत् । न वयमन्धकारस्य प्रत्यर्थिनः, किन्त्वारम्भानुपपत्तेः, नीलिममात्रप्रतीतेश्च द्रव्यमिदं न भवतीति ब्रूम इति ॥ नैतदुपपत्तिपदवी प्रतिपद्यते, यतः स्पर्शवन्त एव तामसाः परमाणवः प्रोच्यन्ते । यत्पुनस्तत्रोपादेशि- स्पर्शवतस्तत्कार्यद्रव्यस्य कचिदप्यनुलम्भादिति । सदसत्यम् , शीतस्पर्शवतस्तमोद्रव्यस्यैव तत्कार्यस्य दर्शनात् । तत्र स्पर्शसद्भावे किं प्रमाणम् ?, इति चेत् । तदभावे किं प्रमाणम् ? इति वाच्यम्, न हि तत्प्रतिषेधकप्रमाणमन्तरेणाऽस्पर्शवत्त्वात् का