________________
रत्नाकरावतारिकायुक्तः ।
६९
"
"
र्यद्रव्यानारम्भस्त्वया प्रसाधयितुं शक्यते, अस्माकं तु तत्सद्भावे प्रमाणाभावेऽपि तावद् न काचित् क्षतिः । न च नास्त्येव तत्, प्रत्यक्षस्यैव सद्भावात् तथाहि - दिवा दिवाकरकरालातपप्रपातो पतप्तवपुषः प थिकास्तमिस्रासंतमसशैत्यसंपर्कात् प्रमोदन्ते; न च तापाभावमात्रसूत्रित एव तेषां प्रमोदः, प्रतीतिबाधात्, तन्मात्रनिमित्तो हि घटोऽत्र नास्तीतिवत् तापः संप्रति नास्तीति प्रतिषेधमुख एव प्रत्ययः प्रादु: - यात्; न तु संप्रति शीतलीभूतं मे शरीरमिति विधिमुखः; तथा हि तमोऽभावमात्रसूत्रित एवायमालोकप्रत्यय इत्यपि वावदूकस्य वदतो वदनं न वक्रीभवेत् । अथान्धकारनिबन्धनत्वे शैत्यस्पर्शप्रत्ययस्य निबिडतरघटितकपादसंपुढे गवलकुवलय कलकण्ठीकण्ठका ण्डकृष्णान्धकारैकार्णवीभूते कारागारे क्षिप्तस्य पुंसः सुतरां तत्प्रत्ययो भवेत् इति चेत् । तापाभावनिमित्ततायामपि सुतरां स किं तत्र न स्यात् ?, तत्रात्यन्तं तापाभावसंभवात् । तस्माद् मन्दमन्दसमीरलहरिपरिचय एवं जलस्पर्शस्यैव तत्स्पर्शस्याऽप्यभिव्यक्तौ हेतु:, न चासौ तत्रास्तीति न तत्र तत्प्रतीतिः प्रादुर्भवति । अनुमानतोऽपि तत्र स्पर्शप्रतीतिः, तथाहि- तमः स्पर्शवद्, रूपवत्त्वात् पृथ्वीवत् । न च रूपवत्त्वमसिद्धम्, अन्धकारः कृष्णोऽयमिति कृष्णाकारप्रतिभासात् । ननु यदि तिमिरं श्यामरूपपरिकलितकलेवरं स्यात् तदावश्यं स्वप्रतिभासे आलोकमपे-क्षेत, कुवलय कोकिलतमालादिकृष्ण वस्तूनामालोकापेक्षवीक्षणत्वादिति चेत् । तद् नाऽकलङ्कम्, उलूकादीनामालोकमन्तरेणापि तत्प्रतिभासात् । अथास्मदादिप्रतिभासमपेक्ष्यैतदुच्यते । तदपि न पेशलम् यतो यद्यपि कुवलयादिकमालोकमन्तरेणालोकयितुं न शक्यतेऽस्मदादिभिः, तथापि तिमिर मालोकयिष्यते, विचित्रत्वाद् भावानाम्, इतरथा पीतावदातादयोऽपि तपनीयमुक्ताफलप्रमुखा नालोकनिरपेक्षवीक्षणा इति प्रदीपचन्द्रादयोऽपि प्रकाशान्तरमपेक्षेरन् । इति सिद्धं तमो रूपवत् । तथा तमो रूपवत्, कार्ण्यवत्त्वेन प्रतीयमानत्वात्, कुवलयवत्, इत्यतोऽपि तत्र रूपवत्त्वसिद्धिः, न खल्वरूपं कुम्भाभावादि कृष्णाद्याकारेण कदाचित्
"
"