________________
प्रमाणनयतत्वालोकालङ्कारःप्रतीयमानमालोकितम् , इति रूपवत्त्वसिद्धौ च सिद्धं स्पर्शवत्त्वम् । तथा च तामसपरमाणूनां कार्यद्रव्यारम्भप्रतिषेधोपन्यस्तमस्पर्शवत्त्वं खरूपासिद्धम् , परस्य तामसपरमाणूनामप्रसिद्धराश्रयासिद्धं चेति स्थितम् ॥ . द्रव्यगुणकर्मातिरिक्तकार्यत्वमपि न हेतुः, द्रव्यातिरिक्तकार्यत्वस्य तस्मिन्नसिद्धत्वेनैकदेशासिद्धतापत्तेः । तत्प्रसिद्धिर्हि तस्याभा
रूपतया, अन्यतो वा कुतोऽप्यभिधीयते ? । नाद्यः पक्षः, परस्पराश्रयप्रसङ्गात्- अभावरूपतासिद्धौ हि तस्य द्रव्यातिरिक्तकार्यत्वसिद्धिः, ततोऽपि सेति । अन्यहेतुतस्तत्सिद्धौ तु स एवास्तु, किमनेन सिद्धोपस्थायिना कृतकभक्तिभृत्येनेव कर्तव्यम् ? ॥ . आलोकविरोधित्वमपि न साधीयः, न हि यो यद्विरोधी स तदभावस्वभाव एव, वारिवैश्वानरयोः परस्पराभावमात्रतापत्तेः । अथ सहानवस्थानलक्षणो विरोधस्तिमिरस्याऽभावस्वभावतासिद्धौ साधनत्वेनाभिप्रेतः, न वध्यघातकभावः, स च भावाभावयोरेव संभवी, न पुनर्द्वयोरपि भावयोः, तदिहालोकानवकाशे सत्येव समुज्जृम्भमाणस्यान्धकारस्याऽभावरूपतैव श्रेयसी, कुम्भाभाववदिति चेत् । तदपवित्रम् , अत्रापि वध्यघातकभावस्यैव भावात् , घनतरतिमिरपूरिते पथि प्रसर्पता प्रदीपप्रभाप्राग्भारेण तिमिरनिकुरम्बाडम्बरविडम्बनात् ॥ . भावरूपताप्रसाधकप्रमाणाभावोऽप्यसिद्धः, तत्प्रसाधकानुमानसद्भावात् , तथाहि-भावरूपं तमः, घनतरनिकरलहरिप्रमुखशब्दैर्व्यपदि. श्यमानत्वात् , आलोकवत् । न चासिद्धिः साधनस्य, तथाहि"रहःसंकेतस्थो घनतरतमःपुञ्जपिहिते
वृथोन्मेषं चक्षुर्मुहुरुपदधानः पथि पथि । खटत्कारादल्पादपि निभृतसंप्राप्तरमणी
भ्रमभ्राम्यद्वाहुर्दमदभिकयोत्ताम्यति युवा ॥ १ ॥
पर्यस्तो दिवसस्तटीमयमटत्यस्ताचलस्यांशुमान् ..... संप्रत्यङ्कुरिताऽन्धकारनिकरैर्लम्बाऽलका द्यौरभूत् ।