________________
रत्नाकरावतारिकायुक्तः। एह्यन्तर्विश वेश्मनः प्रियसखि ! द्वारस्थलीतोरण
स्तम्भालम्बितबाहुवल्लि ! रुदती किं त्वं पथः पश्यसि ? ॥२॥ तिमिरलहरीगुर्वीमुर्वी करोतु विकखरां
हरतु नितरां निद्रामुद्रां क्षणाद् गुणिनां गणात् । तदपि तरणे ! तेजःपुजः प्रियो न ममैष ते
किमपि तिरयन् ज्योतिश्चक्रं स्वजातिविराजितम्" ॥३॥ औपचारिक एवायं तत्र तव्यपदेश इति चेत् । नैवम् , एतदभावरूपताप्रसिद्धि विना घनतरादिव्यपदेशस्य भावरूपमुख्यार्थबाधाविरहेण तस्यौपचारिकत्वाऽयोगात्; तथात्वेऽपि वा तस्य तमसो भावरूपतैव प्रसिध्यति, न खलु कुम्भाद्यभावस्तथाप्रकारोपचारगोचरचारितामास्तिघ्नुते, तत्र सादृश्याद्युपचारकारणाभावात् । तथा नाभावरूपं तमः, प्रागभावाद्यस्वभावत्वाद्, व्योमवत् । न चायमपि हेतुरसिद्धः, तथाहि-आलोकस्य प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः, अत्यन्ताभावो वा तमो भवेत् ?। आये, एकस्य, अनेकस्य वाऽयं तत् स्यात् ? । न तावदेकस्यालोकस्य प्रागभावस्तमः, प्रदीपालोकेनेव प्रभाकरालोकेनापि तस्य निवर्त्यमानत्वात् , यस्य हि यः प्रागभावः स तेनैव निवर्त्यते, यथा पटप्रागभावः पटेनैव । नाप्यनेकस्य, एकेन निवर्त्यमानत्वात् , पटप्रागभाववदेव । न च वाच्यं प्रत्यालोकं स्वस्वनिवर्तनीयस्य तमसो भेदात् प्रदीपादिना निवर्तितेऽपि तमोविशेषे पूषादिनिवर्तनीयं तमोऽन्तरं तदा तदभावाद् न निवर्तते, इत्येकेन निवर्त्यमानत्वादिति हेतुर सिद्ध इति, प्रदीपादिनिवर्तिततमसि प्रदेशे दिनकरादिनिवर्तनीयस्य तमोऽन्तरस्योपलब्धिलक्षणप्राप्तस्याऽनुपलब्धेः, संप्रतिपन्नवत्। यदि चेदं प्रागभावस्वभावं स्यात् ,तदा प्रदीपप्रभाप्रबन्धप्रध्वंसेऽस्योत्पत्तिर्न स्यात् ,अनादित्वात् प्रागभावस्य । नाप्यालोकस्य प्रध्वंसाभावस्तमः,निवर्त्यमानत्वात्, तस्यैव प्रागभाववत् । नापीतरेतराभावः, तस्य प्रसृतेऽपि प्रचण्डे मार्तण्डीये तेजसि सद्भावेन तमिस्रायामिव वासरेऽपि तमःप्रतीतिप्रसङ्गात् । नाप्यालोकस्याऽत्यन्ताभावस्तमः, तस्य स्वकारणकलापोपनिपातकाले स.