________________
७२ प्रमाणनयतत्त्वालोकालङ्कारःमुत्पद्यमानत्वात् । इति पक्षाऽष्टकेनाऽप्यघटमानत्वाद् नानुमानिक्यपि समसोऽभावरूपतास्वीकृतिः॥ एतत् सकलमपि प्रायेण च्छायायामपि समानमिति यथासंभवं योज्यम् । विशेषतश्चैतद्र्व्यताप्रसिद्धिः परिपाटिप्राप्तस्याद्वादरत्नाकरादवधारणीया। यत्पुनरवाचि-तमसि सञ्चरतः पुंसः प्रतिबन्धः स्यादित्यादि, तदखिलमालोकेऽपि समानमिति स एव प्रतिविधास्यति, इति किमतिप्रयत्नेन तत्रास्माकम् ? । इति सिद्धे तमश्छाये द्रव्ये ॥ २१ ॥ . मनःपर्यायं प्ररूपयन्तिसंयमविशुद्धिनिबन्धनाद् विशिष्टावरणविच्छेदाज्जातं मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् ॥२२॥
विशिष्टचारित्रवशेन योऽसौ मनःपर्यायज्ञानावरणक्षयोपशमस्तस्मादुद्भूतं मानुषक्षेत्रवर्तिसंज्ञिजीवगृहीतमनोद्रव्यपर्यायसाक्षात्कारि यज्ज्ञानं तन्मनःपर्यायज्ञानमित्यर्थः ।। २२ ॥
सकलप्रत्यक्षं लक्षयन्तिसकलं तु सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिखरूपं केवलज्ञानम्॥२३॥ - सामग्री सम्यग्दर्शनादिलक्षणाऽन्तरङ्गा, बहिरङ्गा तु जिनकालिकमनुष्यभवादिलक्षणा, ततः सामग्रीविशेषात् प्रकर्षप्राप्तसामग्रीतः समुद्भूतो यः समस्तावरणक्षयः सकलघातिसंघातविघातस्तदपेक्षं सकलवस्तुप्रकाशस्वभावं केवलज्ञानं ज्ञातव्यम् ।। ____ यस्तु नैतदमस्त मीमांसकः, मीमांसनीया तन्मनीषा, तथाहिबाधकभावात् , साधकाभावाद् वा सकलप्रत्यक्षप्रतिक्षेपः ख्याप्येत?। आद्यपक्षे प्रत्यक्षम् , अप्रत्यक्षं वा बाधकमभिदध्याः ?। प्रत्यक्षं चेत् । पारमार्थिकम् , सांव्यवहारिकं वा । पारमार्थिकमपि विकलम् , सकलं वा । विकलमप्यवधिलक्षणम् , मनःपर्यायरूपं वा?। नैतत्पक्षद्वयमपि क्षेमाय, द्वयस्याऽस्य क्रमेण रूपिद्रव्यमनोवर्गणागोचरत्वेन तद्बाधनविधा