________________
रत्नाकरावतारिकायुक्तः। ७३ वधीरत्वात्। सकलं चेत् , अहो ! शुचिविचारचातुरी, यत्केवलमेव केवलप्रत्यक्षस्याऽस्याऽभावं विभावयतीति वक्षि, वन्ध्याऽपिप्रसूयतामिदानी स्तनन्धयान , वान्ध्येयोआप च विधत्तामुत्तंसान् । सांव्यवहारिकमप्यनिन्द्रियोद्भवम् , इन्द्रियोद्भवं वा ?। न तावत् प्रथमम् , अस्य प्रातिभातिरिक्तस्य खात्माविष्वग्भूतसुखादिमात्रगोचरत्वात् । प्रातिभं तु सद्बाधकं नानुभूयत एव । ऐन्द्रियं तु स्वकीयम् , परकीयं वा । स्वकीयमपीदानीमत्र तद् बाधेत, सर्वत्र सर्वदा वा ?। प्राचि पक्षे, पिष्टं पिनष्टि भवान्, तथा तदभावस्याऽस्माभिरप्यभीष्टेः । द्वितीये तु, सर्वदेशकालानाकलय्येदं तदभावमुद्भावयेत्, इतरथा वा ? । आकलय्य चेत्, आकालं नन्दताद् भवान्, भवत्येव सकलकालकलाकलापाशेषदेशविशेषवेदिनि वेदनस्य तादृशः प्रसिद्धेः । अनाकलय्य चेत्, कथं सकलदेशकालाऽनाकलने सर्वत्र सर्वदा वेदनं ताग नास्तीति प्रतीतिरुल्लसेत् ?। परकीयमपीदानीमत्र तद्भावं बाधेत, सर्वत्र सर्वदा वेत्यादिविकल्पजालजर्जरीभूतं न तद्वाधनधुरां धारयितुं धीरतां दधाति । कथं वा परगृहरहस्याभिज्ञो भवानेवमभूत् ? । तादृक्षप्रत्यक्षप्रतिक्षेपदक्षं प्रत्यक्षं प्रावर्तिष्ट ममेति तेन कथनाचेत् । यदि कथिते प्रत्ययः, तर्हि तादृक्षाध्यक्षप्रतिक्षेपि प्रत्यक्षं नास्त्येव, इत्युत्तम्भितहस्ता वयं व्याकुर्मह इति किं न तथाऽनुमन्यसे ? । अथ न यौष्माकीणः प्रमाणप्रवीणः समुल्लापः। परकीयः कथमिति वाच्यम् ?, न खल्वयं स्वप्रत्यक्षं त्वत्प्रत्यक्षं कर्तुं शक्नोति, वचसा तु यथाऽसौ कथयति, तथा वयमपि। अथ तदुपदर्शितेऽर्थे संवादात् तद्वचः प्रमाणम् । नन्वेवं प्रत्यक्षम् , अप्रत्यक्षं वा संवादकं स्यात् ? इत्यादिपूर्वोक्तावर्तनेनाऽनवस्थावल्लिरुलसन्ती कथं कर्तनीया ?। किञ्च, संविदामिन्द्रियागोचरत्वादैन्द्रियमध्यक्षं सकलप्रत्यक्षस्य विधौ प्रतिषेधे वा मूकमेव वराकम् । न च त्वन्मतेनाभावः प्रत्यक्षेण प्रेक्ष्यते, तथात्वे हि किमिदानीमपहृतसर्वखेन तपस्विनाऽभावप्रमाणेन कर्तव्यम् ? । तन्न प्रत्यक्षं तद्वाधविधान
1 सप्तमी।
१.