________________
७४ प्रमाणनयतत्वालोकालङ्कारःसंविधानोंडुरम् । अप्रत्यक्षमपि प्रत्यक्षाभावमात्रम्, अपरप्रमाणरूपं वा प्रणिगद्येत ? । आद्यं चेत्, तर्हि निद्राणदशायामम्भस्तम्भकुम्भाभोरुहाम्भोधरादिगोचरप्रत्यक्षाभावात् तेषामभावो भवेत् । द्वितीयं चेत्, भावस्वभावम् , अभावस्वभावं वा ? । भावस्वभावमप्यतुमान, शाब्दम् , अर्थापत्तिः, उपमानं वा ? । अनुमानं चेत् , कस्तत्र धर्मी ?-सकलप्रत्यक्षम् , पुरुषो वा कश्चित् ?। सकलप्रत्यक्षं चेत्, तत्रोपादीयमानः समस्तो हेतुराश्रयासिद्धतामाश्रयेत् , भवतस्तस्याऽप्रसिद्धेः। पुरुषोऽपि सर्वज्ञः, तदन्यो वा धर्मी वयेत ? । सर्वज्ञश्चेत्, किं सर्वज्ञवेन निर्णीतः, पराभ्युपगतो वा ?। निर्णीतश्चेत्, कथं तत्र तादृक्षप्रत्यक्षप्रतिक्षेपः प्रेक्षाकारिणः कर्तुमुचितः ?, तन्निर्णायकप्रमाणेनैव तद्वाधनात् । अथ सर्वज्ञत्वेन परैरभ्युपगतः पुमान् वर्धमानादिर्धर्मी, तर्हि किं तत्र साध्यम्-नास्तित्वम् , असर्ववित्त्वं वा?। न तावद् नास्तित्वम् , तथाविधपुरुषमात्रसत्तायामुभयोरविवादात्, तथाव्यवहारपारमार्थिकापारमार्थिकत्व एव विप्रतिपत्तेः । असर्ववित्त्वं चेत्, कस्तत्र हेतुःउपलब्धिः, अनुपलब्धिर्वा ? । उपलब्धिश्चेत्, अविरुद्धोपलब्धिः, विरुद्धोपलब्धिर्वा ?। अविरुद्धोपलब्धिस्तावद् व्यभिचारिणी, नित्यत्वनिषेधाभिधीयमानप्रमेयत्ववत् । विरुद्धोपलब्धिस्तु किं साक्षाद् विरुद्धोपलब्धिः, विरुद्धव्याप्तोपलब्धिः, विरुद्धकार्योपलब्धिः, विरुद्धकारणोपलब्धिः, विरुद्धसहचराग्रुपलब्धिर्वा स्यात् ? । नाद्या, सर्वज्ञत्वेन साक्षाद् विरुद्धस्य किञ्चिज्ज्ञत्वस्य तत्र प्रसाधकप्रमाणाभावात् । नागेतनविकल्पचतुष्टयमपि घटामटाट्यते, प्रतिषेध्यस्य हि सर्ववित्त्वस्य विरुद्धं किञ्चिज्ज्ञत्वम् , तस्य च व्याप्यं कतिपयार्थसाक्षाकारित्वम् , कार्य कतिपयार्थप्रज्ञापकत्वम् , कारणमावरणक्षयोपशमः, सहचरादि रागद्वेषादिकम् ; न च विवादापेदाने पुंसि तेषामन्यतमस्थापि प्रसाधकं किञ्चित् प्रमाणं तवाऽस्ति, यतस्तदुपलब्धीनां सिद्धिः स्यात् । वक्तृत्वरूपाविरुद्धकार्योपलब्धिरस्त्येव तनिषेधे साधनं साधिष्ठमिति चेत् । ननु कीदृग् वक्तृत्वमत्र विवक्षाञ्चक्रे, यत्सर्ववित्त्ववि