________________
रत्नाकरावतारिकायुक्तः। ७५ रुद्धस्य कार्य स्यात्?-प्रमाणविरुद्धार्थवक्तृत्वम् , तदविरुद्धार्थवक्तृत्वम् , वक्तृत्वमात्रं वा । आद्यभिदायाम्, असिद्धं साधनम् , वर्धमानादौ भगवति तथाभूतार्थवक्तृत्वाभावात् । द्वितीयभिदि तु, नेयं विरुद्धकार्योपलब्धिः, किन्तु कार्योपलब्धिरेव तद्विधिसाधनी, धूमध्वजसिद्धिनिबन्धनोपन्यस्तधूमोपलब्धिवत् , तथा च विरुद्धो हेतुः । तृतीयभेदे त्वनेकान्तः, वक्तृत्वमात्रे सर्ववित्त्वकार्यत्वस्याविरोधात् । अनुपलब्धिरपि विरुद्धानुपलब्धिः, अविरुद्धानुपलब्धिर्वा ? । विरुद्धानुपलब्धिस्ता वद् विधिसिद्धावेव साधीयस्तां दधाति, अनेकान्तात्मकं वस्तु, एकान्तस्वरूपानुपलब्धेः, इत्यादिवत् । अविरुद्धानुपलब्धिरपि स्वभावानुपलब्धिः, व्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणानुपलब्धिः, सहचराद्यनुपलब्धिर्वाऽभिधीयेत ? । स्वभावानुपलब्धिरपि सामान्येन, उपलब्धिलक्षणप्राप्तत्वविशेषणा वा व्याक्रियेत ? । पौरस्त्या तावत् , निशाचरादिना व्यभिचारिणी । द्वितीया पुनरसिद्धा, सर्ववित्त्वस्य स्वभावविप्रकृष्टत्वात् । व्यापकानुपलब्धिप्रभृतयोऽपि विकल्पा अल्पीयांसः, यतः सर्ववित्त्वस्य व्यापकं सकलार्थसाक्षात्कारित्वम् , कार्यमतीन्द्रियवस्तूपदेशः, कारणमखिलावरणविलयः, सहचरादि क्षायिकचारित्रादिकम् ; न च तत्र तदनुपलब्धीनां सिद्धौ साधनं किञ्चित् तेऽस्ति, इत्यसिद्धा एवाऽमूः । अथ सर्वज्ञादन्यः कश्चिद् धर्मी, तर्हि तस्याऽसर्ववित्त्वे साध्ये सिद्धसाध्यता। तद् नानुमानं तद्बाधकम् ॥ नापि शाब्दम् , यतस्तदपौरुषेयम् , पौरुषेयं वा स्यात् ? । न तावदपौरुषेयम् , अपौरुषेयत्वस्य वचस्सु संभवाभावात् । पौरुषेयमपि केवलालोकाकलितपुरुषप्रणीतम् , तदितरपुरुषप्रणीतं वा ? । आद्यं कथं बाधकम् ?, विरोधात् । द्वितीये त्वसौ. पुरुषः केवलालोकविकलाः सकलाः पुरुषपर्षदः प्रेक्षते, नवा ? । प्राच्यपक्षे, कथं तत्प्रतिषेधः ?, तस्यैव तदाकलितत्वात् । द्वितीयेऽपि कथन्तरां, तत्प्रणीतशब्दस्य पांशुलपादकोपदिष्टशब्दस्येव प्रमाणत्वासंभवात् ॥ नाप्यर्थापत्तिस्तद्वाधिका, तभावमन्तरेणानुपपद्यमानस्य प्रमाणषट्कनिष्टङ्कितस्यार्थस्य कस्यचिदसत्त्वात् ।