________________
७६
__ प्रमाणनयतत्त्वालोकालङ्कारःनाप्युपमानम् , तस्य सादृश्यमात्रगोचरत्वात् । तन्न भावरूपं प्रमाणं तबाधबद्धकक्षम् ॥ नाप्यभावरूपम् , तस्य सत्तापरामर्शिप्रमाणपञ्चकाप्रवृत्तौ सत्यां भावात् , न चासौ समस्ति, विवादास्पदं कस्यचित् प्रत्यक्षम् , प्रमेयत्वात्, पटवत्, इति तद्ग्राहकानुमानस्य प्रवृत्तेः । तन्न बाधकभावात् सकलप्रत्यक्षाऽभावः । नापि साधकाभावात्, अनुमानस्यैव तत्साधकस्येदानीमेव निवेदनात् । इति सिद्धं करतलकलितनिस्तुलस्थूलमुक्ताफलायमानाकलितसकलवस्तुविस्तारं केवलनामधेयं संवेदनम् । इति सिद्धमेवं केवलज्ञानम् ।। २३ ॥ किन्तु कतरं पूरुषमेतदास्पदीकरोतीत्यत्राहुः
तद्वानहन निर्दोषत्वात् ॥ २४ ॥ तत्केवलं नित्यमस्यास्तीति नित्ययोगे मतुप् , निष्क्रान्तो दोषेभ्यो रागद्वेषाऽज्ञानलक्षणेभ्यो निर्दोषस्तद्भावस्तत्त्वं तस्मात् । प्रयोगः-अर्हन् सर्वज्ञः, निर्दोषत्वात् , यस्तु नैवं स नैवं यथा रथ्यापुरुषः, तथा चाईन् , तस्मात् सर्वज्ञ इति ॥ २४ ॥
निर्दोषत्वमस्य प्रसाधयन्तिनिर्दोषोऽसौ प्रमाणाऽविरोधिवाक्त्वात् ॥ २५ ॥
प्रयोगः-अर्हन् निर्दोषः, प्रमाणाविरोधिवाक्त्वात् , यस्तु न निदोषः स न तथा यथा रथ्यापुरुषः, प्रमाणाविरोधिवाक् चाहन् , ततो निर्दोष इति ॥ २५ ॥
प्रमाणाविरोधिवाक्त्वमेवाऽर्हतः प्रसाधयन्तितदिष्टस्य प्रमाणेनाऽबाध्यमानत्वात् तहाचस्ते. नाविरोधसिद्धिः ॥ २६ ॥ तस्याऽहत इष्टस्य प्रतिपाद्यतया संमतस्याऽनेकान्ततत्त्वस्य, तद्वाप इत्यहंद्वाचः । अर्हन् सर्वत्र प्रमाणाविरोधिवाक्, तत्र प्रमाणाबाध्यमानाभिमततत्त्वत्वात् , यस्याऽभिमतं तत्त्वं यत्र प्रमाणेन न बाध्यते, सतत्र प्रमाणाविरोधिवाग्, यथा रोगादी भिषग्वरः, न बाध्यते च