________________
७७ .
रत्नाकरावतारिकायुक्तः। प्रमाणेनाऽर्हतोऽभिमतमनेकान्तादितत्त्वम् , तस्मात् तत्राऽसौ प्रमाणाविरोधिवाक्, इति सिद्धमहन्नेव सर्वज्ञ इति ।।
नन्वियं त्रिभुवनभवनान्तर्वर्तमानाऽन्तरितानन्तरितपदार्थप्रथा त्वत्तीर्थनाथवृत्तिर्न भवति, यतो भूभूधरप्रभृतिपदार्थप्रबन्धविधानद्वारा प्रमथपतेरेवेयमुपपद्यते, यदेतदनुमानमत्र प्ररूप्यते न्यायतात्पर्यावबोधप्रधानमनोवृत्तिविद्वद्वन्देन-विवादपदभूतं भूभूभरादि, बुद्धिमद्विधेयम् , यतो निमित्ताधीनात्मलाभम् , यद् निमित्ताधीनात्मलाभं तद् बुद्धिमद्विधेयम् , यथा मन्दिरम् , तथा पुनरेतत्, तेन तथा । न तावद् निमित्ताधीनात्मलाभत्वं वादिनः, प्रतिवादिनो वाऽप्रतीतम् , यतो भूभूधरादेरात्मीयात्मीयनिमित्तवातनिर्वर्तनीयता भुवनभाविभवभृत्प्रतीतैव । नाऽपि दोलायमानवेदननिमित्तम् , मतिमन्निवर्तनीयेतराम्बरादिपदार्थतोऽत्यन्तव्यावृत्तत्वेन । नापि विरुद्धतावरोधदुर्धरम् , अम्बरादितोऽत्यन्तव्यावृत्तत्वेनैव । नाऽपि तुरीयव्याप्याभताप्रतिबद्धम् , इन्द्रियवेदनेन, अनुमाननाम्ना, राद्धान्ताऽभिधानेन वा मानेनाऽबाधिताऽभिप्रेतधर्मधर्म्यनन्तरप्रतिपादितत्वेन । नापि प्रत्यनुमानापमानतानिबन्धनम् , एतत्परिपन्थिधर्मोपपादनप्रत्यलानुमानाभावेन। ननु भवतीदं तावदनुमानं परिपन्थिधर्मोपपादनप्रत्यलम् , यथाभूताऽधिभूः, भूभूधरादिविधाता न भवति, वपुर्वन्ध्यत्वेन, निर्वृतात्मवत् । तदनवदातम्, यतोऽत्र त्रिनेत्ररूपो धर्मी धीधनेन प्रतिपन्नः, अप्रतिपन्नो वा प्ररूपितः ? । न तावदप्रतिपन्नः, यदेवमाधारद्वाराऽप्रतीतत्वोपद्रवो वपुर्वन्ध्यताव्याप्योपनिपातीभवन् न निरोद्ध तीर्यते । यदि पुनः प्रतिपन्नोऽयं धर्मी, तदा येन मानेन प्रतिपत्तिर्मन्मथप्रत्यर्थिनोऽभिधीयते, तेन तत्त्वादिविधानव्युत्पन्नमतेरेवेयमिति तत्रोपादीयमाना वपुर्वन्ध्यता बाधितवत्मैव, इति न नाम प्रवर्तितुं पर्याप्नोति । तदेवं निमित्ताधीनात्मलाभताव्याप्यमत्यन्तपूतरूपं पर्वतादे(मद्धेतुताप्रतिपादनाऽवदातमेवेति ॥
तत्राभिधीयते-यदिदं तावद् निमित्ताधीनात्मलाभत्वं व्याप्यमा