________________
७८
प्रमाणनयतत्वालोकालङ्कारः
7
लपितं तद् द्रव्यद्वारा पर्यायद्वारा वा ? इति भेदोभयी । यद्या - द्यः पन्थाः प्रथ्यते, तदानीमप्रतीतिर्नामव्याप्योपतापः यतो द्रव्यरूपतया पृथ्वी पर्वतादेर्नित्यत्वमेव प्रतिवादिनाऽभ्युपेयते । ननु भूभूधराद्यमुत्पादवत्, अवयवित्वेन यदेवं तदेवं यथेन्दीवरम्, अवयविरूपं पुनरिदम्, तदुत्पादवदेव, इत्यनुमानेन तन्नित्यता निर्मूलोन्मूलितैवेति । नैतद्धीमद्वृत्तिविधानप्रधानम्, यतो भूभूधरादेरवयवित्वमवयवारंभ्यत्वेन, यद्वाऽवयवव्रातवर्तमानतया मन्यते ? । न प्रथमविधा विबुघावधानधाम, यतो न नामैतत्पृथ्वी पृथ्वीधरप्रभृतिद्रव्यमभूतपूर्वमवयववृन्देन निर्वर्तितमिति प्रतिवादिनः प्रतीतिर्विद्यते । यदि पुनरव यववृत्तिभेदोऽभिधीयते, तदानीमवयवत्वेन दोलायमानताऽत्र, यतो 'अवयवोऽयमवयवोऽयम्' इतीत्थं बुद्धिवेद्यमवयवत्वमवयववितानवृत्ति भवति, न पुनरुत्पादपराधीनम्, नित्यत्वेन । ननु नार्थोऽनेन दुर्भेदप्रबन्धप्रतिपादनेन, प्रतीतोऽयमवयवी तावद्वादिवितते रविवादेन पद्मपपात्रदात्रादिरिति न नाम न प्रतीतः, अपि त्वात्माऽपि तथा नियमेन प्रतीतो वर्तते, न पुनरुत्पादवानित्यनुमेयतत्तुल्यतद्विरुद्धवृत्तितोपद्रवः । यदि तु पर्यायद्वारा निमित्ताधीनात्मलाभवं भूभूधरादेरभिधीयते, तदा नरामरादिपर्यायद्वारोत्पद्यमानात्मनोऽपि बुद्धिमदुत्पाद्यत्वमापद्यते । ननु नरामरागुत्पादनप्रत्यलधर्माधर्मोत्पाद्यानुभवायतनभूताः तथाविधा तनुरेवोत्पद्यते, न पुनरात्मा लवमात्रतोऽपि, अनादिनिधन - त्वेन । यदि पुनरात्माऽप्युत्पत्तिविपत्तिधर्मा भवति, तदानीं भूतमात्र- / तत्त्ववादिमतापत्तिः, आत्मनः पूर्वोत्तरभवानुयायिनोऽभेदिनोऽनभ्युपेतत्वेनेति । तद् न बन्धुरम्, यतो यद्यात्मनोऽभिन्न रूपतैवाऽऽवेद्यते, तदाऽन्यतरनरामरादिभववयैवाऽयमपरिमेयात्मीयानुभवनीयतत्तद्भवपर्यायप्रबन्धानुभवनेन द्वितीयादिभवानुभववान् न भवितुमुपपद्यते, वेद्यते, त्वनेनेयं भवपर्यायपरम्परा; इति तद्रूपतयाऽयमुत्पत्तिमानिति नियम्यते । नाप्येवं भूतमात्रतत्त्ववादितापत्तिः, आत्मनो द्रव्यरूपतया नित्यताभ्युपायेन पूर्वोत्तरभवप्रतीतितः । तन्मतेन तु न नाम द्रव्यतया
j