________________
रत्नाकरावतारिकायुक्तः। ७९ नित्यं वेदनं वर्तते, यतो भूतधर्मतयाऽनेन प्रतिपादितमेतत्, तथैतदनुमानधर्मीन्द्रियोद्भूतबोधेनाऽर्धतो बाध्यते, रूपं ध्वनिरपि नयनोस्थप्रथाप्रत्येयमित्यादिवत्, यतोऽत्र दोलायमानविधानतत्परनरव्यापारः पृथ्वीपृथ्वीधराभ्रतरुपुरन्दरधनुरादिर्भावतातो धर्मी प्ररूपितः, तत्र त्वभ्रतरुविद्युदादेरिदानीमप्युत्पद्यमानतया वेद्यमानतनोर्विधाता नोपलभ्यते । ननु भवत्येव बाधेयं यद्येतद्विधानावधानप्रधानः पुमानिन्द्रियप्रभवप्रभावालम्बनीभूतोऽभ्युपेतो भवति, यावताऽतीन्द्रियोऽयम्, इति नायमुपद्रवः प्रभवति । तदनभिधानीयम् , यतो व्याप्तिप्रविपादनप्रत्यलं मानमत्रेन्द्रियद्वारोद्भूतं वेदनं तवाभिमतम् , धूमानुमानवत्, धूमानुमानेनापि न पारावारोद्भवौदर्यतनूनपात्तदितरतनूनपात्तुल्यत्वेन व्याप्तिः प्रतीता, इतीन्द्रियोद्भववेदनवेद्यभावालम्बनेनैवाऽनेनाऽनुमानेन भवितव्यम् , अन्यथा तु तेन व्याप्तिप्रतीतिर्दुरुपपादेव, ततोऽपि तत्र व्याप्त्यनालम्बनीभूतेन तेन बुद्धिमन्निमित्तेनाऽनुमेयताऽपि नाद्रियते । तथात्वेन प्रतिपादितं त्वेतदत्रेन्द्रियबोधावबोध्यतया. नियमेनाभ्युपेतव्यम् । यदि तु तथाभ्युपेयते, तदा नैतद् निमित्तं तरुविद्युदादेरुपलभ्यते, ततोऽनेन वेदनेनाऽत्र बाधो भवत्येव । ननु धूमानुमानप्रत्याय्यतनूनपातोऽप्येवमनेन वेदनेन बाधो भवति, यतो न तत्राऽपि विधीयमानानुमानेन प्रमात्रा तनूनपादिन्द्रियवेदनेन वेद्यते । तदमनोरमम् , यतोऽत्रानुमातुर्व्यवधिर्विद्यते, व्यवधिमान् पुनः पदार्थो नेन्द्रियालम्बनीभवति, इति तदनालम्बनीभूतः पर्वततनूनपाद् न तेन बाधितुं पार्यते । यदा पुनः प्रमाता तत्र प्रवृत्तो भवति, तदानीमव्यवधानवानयं तनूनपात् तेनोपलभ्यते । तरुविद्युलताभ्रादिबुद्धिमन्निमित्तं तु तत्र प्रवर्तमानेनाऽपि नितरामवधानवताऽपि नोपलभ्यते । ततो भवति तत्रेन्द्रियोद्भवबोधबाधेति । ततोऽपि तथाविधधर्म्यनन्तरनिमित्ताधीनात्मलाभत्वरूपव्याप्यप्रतिपादनेन त्वन्मतेन तुरीयव्याप्याभत्वोपनिपातः, मन्मतेन त्वन्ताप्तेरभावेनानि..१ धूमानुमितेरपि इत्यपि पाठः । . ) ...... '