________________
प्रमाणनयतत्त्वालोकालङ्कारःयतप्रतिपत्तिनिमित्तताऽत्र व्याप्यपराभूतिः । तथेदं निमित्ताधीनात्मलाभत्वं यदि तन्मात्रमेव व्याप्यत्वेन प्रतिपाद्यते, तदा नाभिप्रेतपदार्थप्रतीतिनिर्वर्तनपर्याप्तमनुपलब्धपूर्वोत्पत्तिव्यापारेन्द्रमों मर्त्यपूर्वत्वप्रतीत्यर्थोपात्तमृन्मयत्ववत् । न नाम निपेन्द्रमू! मृन्मयत्वमपि भिद्यते। ननु यद्यपि मृन्मयत्वं तुल्यमेवोभयत्रापि, तथापि नेन्द्रमूर्धाऽन्यो मानवपूर्वत्वेन प्रतीतो विद्यते, ततो विवादपदापन्नोऽप्ययं तत्तुल्यत्वेन न मर्त्यनिवयों भवति । तद् नावदातम् , यतोऽत्रापि न भूभूधरभुवनादिप्रायः पदार्थोऽन्यो बुद्धिमन्निमित्तोपेतः परिभावितो वर्तते। ततो विवादपद्धतिप्रतिबद्धोऽप्ययं न तथा भवितुं लभते । ननु निपादिविद्यते बुद्धिमनिमित्तोपेतः परिभावितः, अतो विवादापन्नोऽपि तथाऽनुमातुमनुरूपः । तदवद्यम् , यतोऽन्यत्रापि निपादिरेव मानवनिर्वो विभावितो विद्यते, ततः पुरन्दरमूर्धाऽपि तन्निवर्येन नितरां भवितव्यम् । ननु नरनिर्मितनिपादितः पुरन्दरमूों वैरूप्यमुपलभ्यते, ततो न तत्र मर्त्यनिवर्त्यतानुमानमुपपन्नम्। यद्येवम् , तदानीमेतद् वैरूप्यं निपादितो भूभूधरभुवनादेरपि परिभाव्यते, यतो निपादिनाऽनुपलब्धबुद्धिमव्यापारात्मनाऽप्युपलब्धेन नियमतो निर्वतितोऽयं मतिमतेति बुद्धिरुत्पाद्यते, न पुनर्भुवनादिना । ततो न निमित्ताधीनात्मलाभत्व. मात्रं बुद्धिमद्धेतृत्वप्रतीतिविधानबन्धुरम् । यदा तु धरित्रीधरित्रीधरत्रिभुवनादिविधानं न प्रतीतम् , तदानीं त्रिनयनो भुवनभवनान्तभर्भाविभावव्रातप्रद्योतनप्रबलवेदनप्रदीपवान्, इति निर्धनदानमनोरथप्रथैवेयमिति ॥ । त्यादिवचनद्वयेन स्यादिकवचनत्रयेण वर्णैस्तु । - त्रिभिरधिकैर्दशभिरयं व्यधायि शिवसिद्धिविध्वंसः॥१॥२६॥ (ति, ते। सि, टा, ङस् । तथधन । पबभम । यरलव ।) केवलिनः कवलाहारवत्त्वे सर्ववित्त्वं विरुध्यत इतीष्टवतो नमाटान् ..
विघटयितुमाहुःन र कंबलाहारवत्त्वेन तस्याऽसर्वज्ञत्वम्, कवलाहा