________________
रत्नाकरावतारिकायुक्तः।
रसर्वज्ञत्वयोरविरोधात् ॥ २७ ॥ तथाहि-अनयोः साक्षात्, परम्परया वा विरोधमभिदधीरनहीकाः ? । तत्र यदि साक्षात्पक्षोपक्षेपदीक्षा दक्षा विवक्षेयुः क्षपणकाः, तत् क्षुणम् , न हि सति सार्वज्ये केवली कवलान् न प्राप्नोति, प्राप्तानपि नाऽऽहर्तुं शक्नोति, शक्तोऽपि वा विमलकेवलाऽऽलोकपलायनशकया नाहरतीत्यस्ति संभवः, अन्तरायकेवलावरणकर्मणोः समूलकाषकषणात् । अथ परम्पराकल्पकल्पनाखल्पतल्पगा जल्पेयुः, तद्प्यल्पीयः, यतः किमेवं सति कवलाहारस्य व्यापकम् , कारणम्, कार्यम् , सहचरादि वा सार्वज्येन विरोधमधिवसेत् ?, अशेषमपि चैतत् परस्परपरिहारेण, सहानवस्थानेन वा विरुध्येत ?। प्राचीनेन चेत्, तदानीं तावकज्ञानेनाऽपि साकं कवलाहारव्यापकादेः परस्परपरिहारस्वरूपविरोधसद्भावाद् भवतोऽपि कवलाहाराभावः स्यात्, इत्यहो ! पुरुषकारः, यत् स्वस्यैव प्रभवितासि । द्वितीयेन तु न तावद् व्यापकं व्याहन्यते, कवलाहारस्य हि व्यापकं शक्तिविशेषवशादुदरकन्दराकोणे क्षेपः, स च सति सार्वज्ये सुतरां संभाव्यते, वीर्यान्तरायकर्मनिर्मूलोन्मूलनात् , तत्र तत्क्षेपहेतोः शक्तिविशेषस्य संभवात् । कारणमपि बाह्यम् , आभ्यन्तरं वा विरोधमधिरोहेत् ? । बाह्यमपि कवलनीयं वस्तु, तदुपहारहेतुपात्रादिकम् , औदारिकशरीरं वा? । न प्रथमम् , यतो यदि सर्ववेदिसंवेदनं कवलनीयपुद्गलैर्विरोधधुरां धारयेत् , तदानीमस्मदादिसंवेदनमपि तथा स्यात; न खलु तरुणतरतरणिकिरणनिकरेणाऽन्धकारनिकुरुम्ब विरुद्धं प्रदीपालोकेनाऽपि न तथा भवति, तथा च करतलतुलिताहारगोचरज्ञानोत्पादेऽस्मदादीनामपि तदभावो भवेत् , इत्यहो! किमपि नूतनतत्त्वालोककौशलम् , यदात्मन्यपि नाहारापेक्षा, अस्मदादौ तयोविरोधावबोध एव हि तत्र तत्प्रतिपत्तावुपायः, तस्याऽस्मदादीनामगोचरत्वात्, यथाऽस्मदादौ ज्ञानतारतम्यावबोधस्तस्य निःशेषविषयत्वस्य प्रतिपत्ताविति । पात्रादिपक्षोऽपि नाऽक्षुणः, भगवतामहतां पाणिपात्रत्वात् । इतरेषामपि केवलिनां