________________
४२ प्रमाणनयतत्त्वालोकालङ्कारःस्वरूपमात्रेण तत् तद्विरोधदुर्धरं स्यात् , ममकारकारणतया वा ? । तत्रादिमः समनन्तरपक्षप्रहारेणैवोपक्षीणः। द्वितीयोऽपि नास्ति, निर्मोहत्वेन तेषां तत्र ममकारविरहात्। न च पात्रादिभावे भवितव्यमेवानेनेत्यवश्यम्भावोऽस्ति, शरीरभावेऽपि तद्भावप्रसङ्गात्, इतरजनेषूभयभावेऽपि तदर्शनात् । औदारिकशरीरमपि न तेन विरोधमध्यूषिवत् , केवलोत्पत्तिसमनन्तरमेव तदभावापत्तेः । आभ्यन्तरमपि तत्कारणं शरीरम् , कर्म वा ?। न तावत् प्रथमं विरुध्यते, भुक्तिहेतोस्तैजसशरीरस्य सार्वज्येन सार्ध त्वयापि सत्त्वस्वीकारात् । कर्मापि घाति, अघाति वा । घात्यपि मोहरूपम्, इतरद् वा ? । इतरदपि ज्ञानदर्शनावरणे, अन्तरायो वा ?। नाद्यः, तयोनिदर्शनावरणमात्रचरितार्थत्वेन तत्कारणत्वानुपपत्तेः, । नापि द्वितीयः, अन्तरायविलयस्यैव तत्कारणत्वात् , तस्य च साकल्येन केवलिनस्त्वयापि स्वीकारान् । मोहोऽपि बुभुक्षालक्षणस्तत्कारणम् , सामान्येन वा ?। प्रथमप्रकारे सर्वत्रापीयं तत्कारणम् , अस्मदादावेव वा ? । प्राच्यः प्रमाणमुद्रादरिद्रः । अथ या चेतनक्रिया सेच्छापूर्विकैव, यथा संप्रतिपन्ना, तथा च भुजिक्रिया, इत्यस्ति प्रमाणम् , तथाहि-प्रथमं प्रमाता प्रमिणोति, तत इच्छति, अनन्तरं यतते, ततोऽपि करोतीति । नैवम् , सुप्तमत्तमूर्छितादिक्रियाभिर्व्यभिचारात् , स्ववशचेतनक्रियेति सविशेषणहेतूपादानेऽपि केवलिगतगतिस्थितिनिषद्यादिक्रियाभिर्व्यभिचारात् । द्वितीये तु सिद्धसाध्याः स्मः, केवलिनि वेदनीयादिकारणिकाया भुक्तेः सिद्धत्वात् । न सामान्येनाऽपि मोहस्तत्कारणम् , एवं हि गतिस्थितिनिषद्यादीनामपि स एव कारणं स्यात् , तथा च केवलिनि मोहाभावात् तासामप्यभावो भवेदिति कुतस्तीर्थप्रवृत्तिः स्यात् ? । अथ गत्यादिकमैव तत्कारणम् , न मोहः; तर्हि वेदनीयादिकमैव कवलाहारकारणम् , न मोह इत्यपि प्रतिपद्यताम् । अथाघातिकर्म तत्कारणम् , किमाहारपर्याप्तिः, नामकर्मभेदः; वेदनीयं वा ? । न द्वयमप्येतत् प्रत्यकं तथा युक्तम् , तथाविधाहारपर्याप्तिनामकर्मोदये वेदनीयोदयप्रबलप्रज्वलदौदर्यज्वलनोपतप्यमानो हि पु