________________
रत्नाकरावतारिकायुक्तः। मानाहारमाहारयति; एवं च समुदितं पुनरेतद् भवति तत्कारणम् , किन्तु न सार्वश्येन विरुध्यते, सर्वज्ञे त्वयाऽपि तदुपगमात् । अथ मोहसहकृतं तत् तत्कारणम् । तदसङ्गतम्, गत्यादिकर्मणामिवाऽस्यापि मोहसाहायकरहितस्यैव तत्र तत्कारित्वाविरोधात् । अथाशुभप्रकृतयएवैतस्य साहायकमपेक्षन्ते, नान्या गत्यादयः, अशुभप्रकृतिश्चेयमसातवेदनीयरूपेति चेत् । तत्किमियं परिभाषा ?। अस्मदादौ तथादर्शनादेवं कल्प्यत इति चेत् । ननु शुभप्रकृतयोऽप्यस्मदादौ मोहसहकृता एव स्वकार्यकारणकौशलमवलम्बमाना विलोकयाञ्चक्रिरे, ततस्ता अपि तथा स्युः, ततो नैतवयस्य मोहापेक्षस्य तत्कारयत्वम्, किन्तु स्वतन्त्रस्य, तच्च केवलिन्यविकलमस्त्येव । तन्न कारणं केवलित्वेन विरुध्यते । कार्य तु यदि विरुद्धम् , तदा तत् तत्र मोत्पादि । अविकलकारणस्तु तत्रोत्पद्यमानः कवलाहारोऽनिवार्य एव । किञ्च, किं नामाहारकार्य सार्वज्येन व्याहन्यते-रसनेन्द्रियोद्भवं मतिज्ञानम् , ध्यानविघ्नः, परोपकारकरणान्तरायः, विसूचिकादिव्याधिः, ईर्यापथः, पुरीपादिजुगुप्सितं कर्म, धातूपचयादिना रिरंसा, निद्रा वा ?। नाद्यः पक्षः; तावन्मात्रेण रसनेन्द्रियज्ञानासम्भवात् , अन्यथाऽमरनिकरनिरन्तरनिर्मुक्तकुसुमपरिमलादिसंबन्धाद् घ्राणेन्द्रियज्ञानमपि भवेत् । न द्वितीयः, केवलिनः शैलेशीप्रारम्भात् प्राग् ध्यानानभ्युपगमात् , तत्र च कवलाहारास्वीकारात् , तद्ध्यानस्य च शाश्वतत्वात् , अन्यथा गच्छतोऽपि कथं नैतद्विघ्नः स्यात् ? । न तृतीयः, तृयीययाममुहूर्तमात्र एव भगवतां भुक्तेः, शेषमशेषकालमुपकारावसराद् । न चतुर्थः, परिज्ञाय हितमिताहाराभ्यवहारात् । न पञ्चमः, गमनादिनाऽपीर्यापथप्रसङ्गात् । न षष्ठः, यतस्तस्मिन् क्रियमाणे तस्यैव जुगुप्सा संपद्येत, अन्येषां वा ?। न तावत् तस्यैव भगवतः, निर्मोहत्वेन जुगुप्सायाअसम्भवात् । अथाऽन्येषाम् , तत् किं मनुजदनुजामरेन्द्रतद्रमणीसहस्रसङ्घलायां सभायामनंशुके भगवत्यासीने सा तेषां न संजायते ?।
१ तत्कार्यमित्यपि पाठान्तरम्। २ तेनेत्यपि पाठान्तरम् ।