________________
रनाकरावतारिकायुक्तः । ४५ व्यज्यमानः सामत्येन, प्रदेशतो वा व्यज्येत । नाद्यः पक्षः क्षेमंकरः । सकलशरीरिणां युगपत्तदुपलम्भापत्तेः। द्वितीयविकल्पे तु कथं सकर्णस्थापि संपूर्णवर्णाकर्णनं भवेत् ? । न खलु निखिलावृताङ्गराजाङ्गनानामपटुपवनापनीयमानवसनाञ्चलत्वेन चलनाङ्गुलिकोटिप्रकटतायां विकस्वरशिरीषकुसुमसुकुमारसमग्रविग्रहयष्टिनिष्टङ्कन विशिष्टेक्षणानामपीक्ष्यते। प्रदेशाभिव्यक्तौ चास्य सप्रदेशत्वं प्रसज्यते । ततो व्यजकस्य कस्यचिच्छब्दे संभवाभावात् , तद्गता एव तीव्रतादय इति नासिद्धो हेतुः। यदपि श्रावणत्वादित्यनुमानम् , तदपि
"कान्तकीर्तिप्रथाकामः कामयेत स्वमातरम् ।
ब्रह्महत्यां च कुर्वीत स्वर्गकामः सुरां पिबेत् " ॥१॥ इत्याद्यानुपूर्व्या सव्यभिचारम् । नित्यैवेयमिति चेत् , तर्हि प्रेरणावत् प्रामाण्यप्रसङ्गः, तदर्थानुष्ठानाश्रद्धाने च प्रत्यवायापत्तिः । उदात्तस्वरिततीव्रमन्दसुस्वरविस्वरत्वादिधर्मैश्च व्यभिचारः, तेषां नित्यत्वे सदाप्येकाकारप्रत्ययप्रसक्तेः । नित्यत्वेऽप्यमीषामभिव्यक्तिः कादाचित्कीति चेत् । तदचारु । परस्परविरुद्धानामेकत्र समावेशासंभवात् । प्रभाकरेण शब्दत्वास्वीकारादुभयविकलश्च तं प्रत्यत्र दृष्टान्तः । अथ भट्ट एवेत्थमनुमानयति । प्रभाकरस्तु देशकालभिन्ना गोशब्दव्यक्तिबुद्धय एकगोशब्दगोचराः, गोरित्युत्पद्यमानत्वात् , अद्योच्चारितगोशब्दव्यक्तिबुद्धिवदिति वदतीति चेत्। तदप्यनवदातम् । अत्र प्रतिबन्धाऽभावात् , तडित्तन्तुनित्यत्वसिद्धावप्येवंविधानुमानस्य कर्तुं शक्यत्वात् । याऽप्यपत्तिः प्रत्यपादि, तत्रायमर्थः-अनित्यत्वे सति यो गृहीतसंबन्धः शब्दः, स तदैव दध्वंसे इति व्यवहारकालेऽन्य एवागृहीतसंबन्धः कथमुच्चार्येत ? उच्चार्यते च, तस्मान्नित्य एवायमिति । तदयुक्तम् । अनेन न्यायेनार्थस्यापि नित्यतैकतापत्तेः, अन्यथा बाहुलेये गृहीतसंबन्धोऽपि गोशब्दः शाबलेयादिस्वगृहीतसंबन्धः कथं प्रतिपत्तिं कुर्यात् ? । सामान्यस्यैव शब्दार्थत्वाददोष इति चेत् । न । लम्बकम्बलः ककुद्मान् , वृत्तशृङ्गश्चायं गौरिति सामानाधिकरण्याभावप्रसक्तेः । ततः सामान्यविशेषात्मैव शब्दार्थः, स च नैकान्तेनाऽन्वतीति न नित्यैकरूपोऽभ्युपेयः स्यात्। कथं च धूमव्य