________________
४४
प्रमाणनयतत्वालोकालङ्कार:
मशक्तेः । उन्मज्जनेऽपि व्यक्तिभावाभावयोः कुम्भादाविवात्राप्युदयव्ययाध्यवसायो न स्यात् । अस्ति चायम्, तस्मादनन्यथासिद्धप्रत्यक्षप्रतिबद्ध एवेति निश्चीयते। अनित्यः शब्दस्तीव्रमन्दतादिधर्मोपेतत्वात्, सुखदुःखादिवदित्यनुमानबाधः । व्यञ्जकाश्रितास्तीव्रतादयः तत्राभान्तीति चेत्, किं तत्र व्यञ्जकम् । कोष्ठवायुविशेषा ध्वनय इति चेत्, कथं तर्हि तद्धर्माणां तेषां श्रावणप्रत्यक्षे प्रतिभासः स्यात् ? ध्वनीनामश्रावणत्वेन तद्धर्माणामप्यश्रावणत्वात् । न खलु मृदुसमीरलहरीतरङ्गयमाणनिष्पङ्कपयोभाजनादौ प्रतिबिम्बितमुखादिगतत्वेन तरलत्वमिव माधुर्यमप्यचाक्षुषं चक्षुः प्रत्यक्षेण प्रेक्ष्यते । श्रोत्रग्राह्य एव कश्चिदर्थः शब्दस्य व्यञ्जकः, तीव्रत्वादिधर्मवान्, अनित्यश्चेष्यत इति चेत् । न । तस्यैव शब्दत्वात् । श्रोत्रग्राह्यत्वं हि शब्दलक्षणम्; तल्लक्षणयुक्तस्य च तस्य ततोऽर्थान्तरत्वमयुक्तम् । किं च । कस्य किं कुर्वन्तोऽमी व्यञ्जका ध्वनयो भवेयुः ? । शब्दस्य, श्रोत्रस्योभयस्य वा संस्कारमिति चेत्, कोऽयं संस्कारोऽत्र ? रूपान्तरोत्पत्तिः, आवरणविपत्तिर्वा । आद्यश्चेत्, कथं न शब्दश्रोत्रयोरनित्यत्वं स्यात् ? स्वभावान्यत्वरूपत्वात्तस्य । अथ रूपं धर्मः; धर्मधर्मिणोश्च भेदात्, तदुत्पत्तावपि न भावस्वभावान्यत्वमिति चेत्, ननु धर्मान्तरोत्पादेऽपि भावस्वभावोऽजनयद्रूपस्वरूपस्ताद्यगेव चेत् तदा पटादिनेव श्रोत्रेण घटादेरिव ध्वनेर्नोपलम्भः संभवेत् । तत्संबन्धिनस्तस्य करणाददोष इति चेत्, स तावत् संबन्धो न संयोगः, तस्याऽद्रव्यत्वात् । समवायस्तु कथञ्चिदविष्वग्भावान्नान्यो भवितुमर्हतीति तदात्मकधर्मोत्पत्तौ धर्मिणोऽपि कथञ्चिदुत्पत्तिरनिवार्या । आवरणापगमः संस्कारः क्षेमकार इति चेत्, स तार्ह शब्दस्यैव संभाव्यते, ततश्चैकत्रावरणविगमे समग्रवर्णाऽऽकर्णनं स्यात् । प्रतिवर्ण पृथगावरणमिति यस्यैवावरणविर - मणम्, तस्यैवोपलब्धिरिति चेत् । तन्नावितथम् । अपृथग्देश वर्त्तमानैकेन्द्रयग्राह्याणां प्रतिनियताऽऽवरणाऽऽवार्यत्वविरोधात् । यत् खलु प्रतिनियतावरणावार्यम् ; तत् पृथग्देशे वर्तमानम्, अनेकेन्द्रियग्राह्यं च दृष्टं, यथा घटपटौ, यथा वा रूपरसाविति । अपृथग्देशवर्त्तमानै केन्द्रियग्राह्यत्वादेव च नास्य प्रतिनियतव्यञ्जकव्यङ्ग्यत्वमपि । अस्तु वैतत्तथाऽप्यऽयमभि