________________
. रवाकरावतारिकायुक्तः । तत्र वर्ण वर्णयन्ति
अकारादिः पौद्गलिको वर्णः ॥ ९॥ पुद्गलैर्भाषावर्गणापरमाणुभिरारब्धः पौगलिकः । अत्र याज्ञिकाः प्रज्ञापयन्ति-वर्णस्याऽनित्यत्वमेव तावद् दुरुपपादम् , कुतस्तरांपुद्गलारब्धत्वमस्य स्यात् । तथाहि-स एवायंगकार इति प्रत्यभिज्ञा, शब्दो नित्यः श्रावणत्वाच्छब्दत्ववदित्यनुमानम् , शब्दो नित्यः; परार्थ तदुच्चारणान्यथानुपपत्तेरित्यापत्तिश्चेति प्रमाणानि दिनकरकरनिकरनिरन्तरप्रसरपरामर्शोपजातजृम्भाऽऽरम्भाम्भोजानीव मनःप्रसादमस्य नित्यत्वमेव द्योतयन्ति । तदवद्यम् । यतः प्रत्यभिज्ञानं तावत् 'कथञ्चिदनित्यत्वेनैवाऽविनाभावमाभेजानम् , एकान्तैकरूपतायां ध्वनेः स एवायमित्याकारोभयगोचरत्वविरोधात् । कथमात्मनि तद्रूपेऽपि स एवाहमिति प्रत्यभिज्ञेति चेत् । तदशस्यम् । तस्यापि कथञ्चिदनित्यस्यैव स्वीकारात् । प्रत्यभिज्ञाभासश्चायम्, प्रत्यक्षानुमानाभ्यां बाध्यमानत्वात् , प्रदीपप्रत्यभिज्ञावत् । प्रत्यक्षं हि तावदुत्पेदे विपेदे च वागियमिति प्रवर्त्तते । नच प्रत्यभिज्ञानेनैवेदं प्रत्यक्षं बाधिष्यत इत्यभिधानीयम् , अस्यानन्यथासिद्धत्वात् । अभिव्यक्तिभावाऽभावाभ्यामेवेयं प्रतीतिरिति चेत्, कुटकटकटाहकटाक्षादावपि किं नेयं तथा ? । कुम्भकारमुद्गरादिकारणकलापव्यापारोपलम्भात् तदुत्पत्तिविपत्तिस्वीकृतौ, तालुवातादिहेतुव्यापारप्रेक्षणादक्षरेष्वपि तत्स्वीकारोऽस्तु । तालुवातादेरभिव्यक्त्यनभिव्यक्तिमात्रहेतुत्वे, कुलालादेरपि तदस्तु । नचाभिव्यक्तिभावाऽभावाभ्यां तथा प्रतीतिरुपापादि । दिनकरमरीचिराजीव्यज्यमाने, घनतरतिमिरनिकराकीर्यमाणे च कुम्भादावुदपादि व्यपादि चायमिति प्रतीत्यनुत्पत्तेः । तिमिरावरणवेलायामपि स्पार्शनप्रत्यक्षेणास्योपलम्भान्न तथेयमिति चेत्, यदा तर्हि नोपलम्भः तदा किं वक्ष्यसि ? । अथ क्वापि तिमिरादेः तत्सत्त्वाविरोधित्वावधारणात् सर्वत्रानभिव्यक्तिदशायां तत्सत्त्वं निश्चीयत इति चेत्, तत्किमावृतावस्थायां शब्दस्य सत्त्वनिर्णायकं न किञ्चित् प्रमाणमस्ति ?। ओमिति चेत्, तर्हि साधकप्रमाणाभावादसत्त्वमस्तु । अस्त्येव प्रत्यभिज्ञादिकं तदिति चेत् । न । अस्य प्रत्यक्षबाधितत्वेनोन्मतु