________________
४२
प्रमाणनयतत्त्वाळो कालङ्कारः
सौ ते स्यात् ? येन तद्धस्तन्यस्ताक्षर श्रेणेः, पारम्पर्योपदेशस्य वाऽनुसारेण ग्राह्यदेयनिधानादौ निःशङ्कं प्रवर्त्तेथाः । कचित्संवादाच्चेत्, अत एवान्यत्रापि प्रतीहि । कारीर्यादौ संवाददर्शनात् । कादाचित्कविसंवादस्तु सामग्रीवैगुण्यात् त्वयाऽपि प्रतीयत एव प्रतीताप्तत्वोपदिष्टमन्त्रवत् । प्रतिपादितश्च प्राक् रागद्वेषाज्ञानशून्यपुरुषविशेषनिर्णयः । किंच । अस्य व्याख्यानं तावत् पौरुषेयमेव, अपौरुषेयत्वे भावनानियोगादिविरुद्धव्याख्याभेदाभावप्रसङ्गात्, तथाच को नामात्र विश्रम्भो भवेत् ? । कथं चैतध्वनीनामर्थनिर्णीतिः ? लौकिक ध्वन्यनुसारेणेति चेत्, किं न पौरुषेयत्वनिर्णीतिरपि ? ; तत्रोभयस्यापि विभावनात् । अन्यथा त्वर्द्धजरतीयम् । नच लौकिकार्थानुसारेण मदीयोऽर्थः स्थापनीय इति श्रुतिरेव स्वयं वक्ति, नच जैमिन्यादावपि तथा कथयति प्रत्यय इत्यपौरुषेयवचसामर्थोऽप्यन्य एव कोऽपि संभाव्येत । पौरुषेयीणामपि म्लेच्छार्यवाचामैकायै नास्ति, किं पुनरपौरुषेयवाचाम् । ततः परमकृपापीयूषप्लावितान्तःकरणः कोऽपि पुमान्निर्दोषः प्रसिद्धार्थैर्ध्वनिभिः स्वाध्यायं विधाय व्याख्याति, इदानींतनग्रन्थकारवत्, इति युक्तं पश्यामः ।
अवोचाम च
‘छन्दः स्वीकुरुषे प्रमाणमथ चैतद्वाच्यनिश्चायकम् । कश्चिद्विश्वविदं न जल्पसि ततो जातोऽस्य मूल्यक्रयी ॥ इति । आगमोऽपि नाऽपौरुषेयत्वमाख्याति । पौरुषेयत्वाविष्कारिण एवा - स्योक्तवत्सद्भावात् । अपि च । इयमानुपूर्वी पिपीलिकादीनामिव देशकृता, अङ्कुरपत्रकन्दलकाण्डादीनामिव कालकृता वा वर्णानां वेदे न संभवति, तेषां नित्यव्यापकत्वात् । क्रमेणाभिव्यक्तेः सा संभवतीति चेत्, तार्ह कथमियमपौरुषेयी भवेत् ? अभिव्यक्तेः पौरुषेयत्वात् । इति सिद्धा पौरुषेयी श्रुतिः ॥ ७ ॥
आप्तं प्ररूप्य तद्वचनं प्ररूपयन्ति
वर्णपदवाक्यात्मकं वचनम् ॥ ८ ॥
उपलक्षणं चैतत् प्रकरणपरिच्छेदादीनामपि ॥ ८ ॥